Click on words to see what they mean.

दुर्योधन उवाच ।वासुदेवो महद्भूतं सर्वलोकेषु कथ्यते ।तस्यागमं प्रतिष्ठां च ज्ञातुमिच्छे पितामह ॥ १ ॥
भीष्म उवाच ।वासुदेवो महद्भूतं संभूतं सह दैवतैः ।न परं पुण्डरीकाक्षाद्दृश्यते भरतर्षभ ।मार्कण्डेयश्च गोविन्दं कथयत्यद्भुतं महत् ॥ २ ॥
सर्वभूतानि भूतात्मा महात्मा पुरुषोत्तमः ।आपो वायुश्च तेजश्च त्रयमेतदकल्पयत् ॥ ३ ॥
स सृष्ट्वा पृथिवीं देवः सर्वलोकेश्वरः प्रभुः ।अप्सु वै शयनं चक्रे महात्मा पुरुषोत्तमः ।सर्वतोयमयो देवो योगात्सुष्वाप तत्र ह ॥ ४ ॥
मुखतः सोऽग्निमसृजत्प्राणाद्वायुमथापि च ।सरस्वतीं च वेदांश्च मनसः ससृजेऽच्युतः ॥ ५ ॥
एष लोकान्ससर्जादौ देवांश्चर्षिगणैः सह ।निधनं चैव मृत्युं च प्रजानां प्रभवोऽव्ययः ॥ ६ ॥
एष धर्मश्च धर्मज्ञो वरदः सर्वकामदः ।एष कर्ता च कार्यं च पूर्वदेवः स्वयंप्रभुः ॥ ७ ॥
भूतं भव्यं भविष्यच्च पूर्वमेतदकल्पयत् ।उभे संध्ये दिशः खं च नियमं च जनार्दनः ॥ ८ ॥
ऋषींश्चैव हि गोविन्दस्तपश्चैवानु कल्पयत् ।स्रष्टारं जगतश्चापि महात्मा प्रभुरव्ययः ॥ ९ ॥
अग्रजं सर्वभूतानां संकर्षणमकल्पयत् ।शेषं चाकल्पयद्देवमनन्तमिति यं विदुः ॥ १० ॥
यो धारयति भूतानि धरां चेमां सपर्वताम् ।ध्यानयोगेन विप्राश्च तं वदन्ति महौजसम् ॥ ११ ॥
कर्णस्रोतोद्भवं चापि मधुं नाम महासुरम् ।तमुग्रमुग्रकर्माणमुग्रां बुद्धिं समास्थितम् ।ब्रह्मणोऽपचितिं कुर्वञ्जघान पुरुषोत्तमः ॥ १२ ॥
तस्य तात वधादेव देवदानवमानवाः ।मधुसूदनमित्याहुरृषयश्च जनार्दनम् ।वराहश्चैव सिंहश्च त्रिविक्रमगतिः प्रभुः ॥ १३ ॥
एष माता पिता चैव सर्वेषां प्राणिनां हरिः ।परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ॥ १४ ॥
मुखतोऽसृजद्ब्राह्मणान्बाहुभ्यां क्षत्रियांस्तथा ।वैश्यांश्चाप्यूरुतो राजञ्शूद्रान्पद्भ्यां तथैव च ।तपसा नियतो देवो निधानं सर्वदेहिनाम् ॥ १५ ॥
ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव च ।योगभूतं परिचरन्केशवं महदाप्नुयात् ॥ १६ ॥
केशवः परमं तेजः सर्वलोकपितामहः ।एवमाहुर्हृषीकेशं मुनयो वै नराधिप ॥ १७ ॥
एवमेनं विजानीहि आचार्यं पितरं गुरुम् ।कृष्णो यस्य प्रसीदेत लोकास्तेनाक्षया जिताः ॥ १८ ॥
यश्चैवैनं भयस्थाने केशवं शरणं व्रजेत् ।सदा नरः पठंश्चेदं स्वस्तिमान्स सुखी भवेत् ॥ १९ ॥
ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः ।भये महति ये मग्नाः पाति नित्यं जनार्दनः ॥ २० ॥
एतद्युधिष्ठिरो ज्ञात्वा याथातथ्येन भारत ।सर्वात्मना महात्मानं केशवं जगदीश्वरम् ।प्रपन्नः शरणं राजन्योगानामीश्वरं प्रभुम् ॥ २१ ॥
« »