Click on words to see what they mean.

भीष्म उवाच ।ततः स भगवान्देवो लोकानां परमेश्वरः ।ब्रह्माणं प्रत्युवाचेदं स्निग्धगम्भीरया गिरा ॥ १ ॥
विदितं तात योगान्मे सर्वमेतत्तवेप्सितम् ।तथा तद्भवितेत्युक्त्वा तत्रैवान्तरधीयत ॥ २ ॥
ततो देवर्षिगन्धर्वा विस्मयं परमं गताः ।कौतूहलपराः सर्वे पितामहमथाब्रुवन् ॥ ३ ॥
को न्वयं यो भगवता प्रणम्य विनयाद्विभो ।वाग्भिः स्तुतो वरिष्ठाभिः श्रोतुमिच्छाम तं वयम् ॥ ४ ॥
एवमुक्तस्तु भगवान्प्रत्युवाच पितामहः ।देवब्रह्मर्षिगन्धर्वान्सर्वान्मधुरया गिरा ॥ ५ ॥
यत्तत्परं भविष्यं च भवितव्यं च यत्परम् ।भूतात्मा यः प्रभुश्चैव ब्रह्म यच्च परं पदम् ॥ ६ ॥
तेनास्मि कृतसंवादः प्रसन्नेन सुरर्षभाः ।जगतोऽनुग्रहार्थाय याचितो मे जगत्पतिः ॥ ७ ॥
मानुषं लोकमातिष्ठ वासुदेव इति श्रुतः ।असुराणां वधार्थाय संभवस्व महीतले ॥ ८ ॥
संग्रामे निहता ये ते दैत्यदानवराक्षसाः ।त इमे नृषु संभूता घोररूपा महाबलाः ॥ ९ ॥
तेषां वधार्थं भगवान्नरेण सहितो वशी ।मानुषीं योनिमास्थाय चरिष्यति महीतले ॥ १० ॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।सहितौ मानुषे लोके संभूतावमितद्युती ॥ ११ ॥
अजेयौ समरे यत्तौ सहितावमरैरपि ।मूढास्त्वेतौ न जानन्ति नरनारायणावृषी ॥ १२ ॥
तस्याहमात्मजो ब्रह्मा सर्वस्य जगतः पतिः ।वासुदेवोऽर्चनीयो वः सर्वलोकमहेश्वरः ॥ १३ ॥
तथा मनुष्योऽयमिति कदाचित्सुरसत्तमाः ।नावज्ञेयो महावीर्यः शङ्खचक्रगदाधरः ॥ १४ ॥
एतत्परमकं गुह्यमेतत्परमकं पदम् ।एतत्परमकं ब्रह्म एतत्परमकं यशः ॥ १५ ॥
एतदक्षरमव्यक्तमेतत्तच्छाश्वतं महत् ।एतत्पुरुषसंज्ञं वै गीयते ज्ञायते न च ॥ १६ ॥
एतत्परमकं तेज एतत्परमकं सुखम् ।एतत्परमकं सत्यं कीर्तितं विश्वकर्मणा ॥ १७ ॥
तस्मात्सर्वैः सुरैः सेन्द्रैर्लोकैश्चामितविक्रमः ।नावज्ञेयो वासुदेवो मानुषोऽयमिति प्रभुः ॥ १८ ॥
यश्च मानुषमात्रोऽयमिति ब्रूयात्सुमन्दधीः ।हृषीकेशमवज्ञानात्तमाहुः पुरुषाधमम् ॥ १९ ॥
योगिनं तं महात्मानं प्रविष्टं मानुषीं तनुम् ।अवमन्येद्वासुदेवं तमाहुस्तामसं जनाः ॥ २० ॥
देवं चराचरात्मानं श्रीवत्साङ्कं सुवर्चसम् ।पद्मनाभं न जानाति तमाहुस्तामसं जनाः ॥ २१ ॥
किरीटकौस्तुभधरं मित्राणामभयंकरम् ।अवजानन्महात्मानं घोरे तमसि मज्जति ॥ २२ ॥
एवं विदित्वा तत्त्वार्थं लोकानामीश्वरेश्वरः ।वासुदेवो नमस्कार्यः सर्वलोकैः सुरोत्तमाः ॥ २३ ॥
एवमुक्त्वा स भगवान्सर्वान्देवगणान्पुरा ।विसृज्य सर्वलोकात्मा जगाम भवनं स्वकम् ॥ २४ ॥
ततो देवाः सगन्धर्वा मुनयोऽप्सरसोऽपि च ।कथां तां ब्रह्मणा गीतां श्रुत्वा प्रीता दिवं ययुः ॥ २५ ॥
एतच्छ्रुतं मया तात ऋषीणां भावितात्मनाम् ।वासुदेवं कथयतां समवाये पुरातनम् ॥ २६ ॥
जामदग्न्यस्य रामस्य मार्कण्डेयस्य धीमतः ।व्यासनारदयोश्चापि श्रुतं श्रुतविशारद ॥ २७ ॥
एतमर्थं च विज्ञाय श्रुत्वा च प्रभुमव्ययम् ।वासुदेवं महात्मानं लोकानामीश्वरेश्वरम् ॥ २८ ॥
यस्यासावात्मजो ब्रह्मा सर्वस्य जगतः पिता ।कथं न वासुदेवोऽयमर्च्यश्चेज्यश्च मानवैः ॥ २९ ॥
वारितोऽसि पुरा तात मुनिभिर्वेदपारगैः ।मा गच्छ संयुगं तेन वासुदेवेन धीमता ।मा पाण्डवैः सार्धमिति तच्च मोहान्न बुध्यसे ॥ ३० ॥
मन्ये त्वां राक्षसं क्रूरं तथा चासि तमोवृतः ।यस्माद्द्विषसि गोविन्दं पाण्डवं च धनंजयम् ।नरनारायणौ देवौ नान्यो द्विष्याद्धि मानवः ॥ ३१ ॥
तस्माद्ब्रवीमि ते राजन्नेष वै शाश्वतोऽव्ययः ।सर्वलोकमयो नित्यः शास्ता धाता धरो ध्रुवः ॥ ३२ ॥
लोकान्धारयते यस्त्रींश्चराचरगुरुः प्रभुः ।योद्धा जयश्च जेता च सर्वप्रकृतिरीश्वरः ॥ ३३ ॥
राजन्सत्त्वमयो ह्येष तमोरागविवर्जितः ।यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ ३४ ॥
तस्य माहात्म्ययोगेन योगेनात्मन एव च ।धृताः पाण्डुसुता राजञ्जयश्चैषां भविष्यति ॥ ३५ ॥
श्रेयोयुक्तां सदा बुद्धिं पाण्डवानां दधाति यः ।बलं चैव रणे नित्यं भयेभ्यश्चैव रक्षति ॥ ३६ ॥
स एष शाश्वतो देवः सर्वगुह्यमयः शिवः ।वासुदेव इति ज्ञेयो यन्मां पृच्छसि भारत ॥ ३७ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।सेव्यतेऽभ्यर्च्यते चैव नित्ययुक्तैः स्वकर्मभिः ॥ ३८ ॥
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।सात्वतं विधिमास्थाय गीतः संकर्षणेन यः ॥ ३९ ॥
स एष सर्वासुरमर्त्यलोकं समुद्रकक्ष्यान्तरिताः पुरीश्च ।युगे युगे मानुषं चैव वासं पुनः पुनः सृजते वासुदेवः ॥ ४० ॥
« »