Click on words to see what they mean.

संजय उवाच ।ततो व्यूढेष्वनीकेषु तावकेष्वितरेषु च ।धनंजयो रथानीकमवधीत्तव भारत ।शरैरतिरथो युद्धे पातयन्रथयूथपान् ॥ १ ॥
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।धार्तराष्ट्रा रणे यत्ताः पाण्डवान्प्रत्ययोधयन् ।प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम् ॥ २ ॥
एकाग्रमनसो भूत्वा पाण्डवानां वरूथिनीम् ।बभञ्जुर्बहुशो राजंस्ते चाभज्यन्त संयुगे ॥ ३ ॥
द्रवद्भिरथ भग्नैश्च परिवर्तद्भिरेव च ।पाण्डवैः कौरवैश्चैव न प्रज्ञायत किंचन ॥ ४ ॥
उदतिष्ठद्रजो भौमं छादयानं दिवाकरम् ।दिशः प्रतिदिशो वापि तत्र जज्ञुः कथंचन ॥ ५ ॥
अनुमानेन संज्ञाभिर्नामगोत्रैश्च संयुगे ।वर्तते स्म तदा युद्धं तत्र तत्र विशां पते ॥ ६ ॥
न व्यूहो भिद्यते तत्र कौरवाणां कथंचन ।रक्षितः सत्यसंधेन भारद्वाजेन धीमता ॥ ७ ॥
तथैव पाण्डवेयानां रक्षितः सव्यसाचिना ।नाभिद्यत महाव्यूहो भीमेन च सुरक्षितः ॥ ८ ॥
सेनाग्रादभिनिष्पत्य प्रायुध्यंस्तत्र मानवाः ।उभयोः सेनयो राजन्व्यतिषक्तरथद्विपाः ॥ ९ ॥
हयारोहैर्हयारोहाः पात्यन्ते स्म महाहवे ।ऋष्टिभिर्विमलाग्राभिः प्रासैरपि च संयुगे ॥ १० ॥
रथी रथिनमासाद्य शरैः कनकभूषणैः ।पातयामास समरे तस्मिन्नतिभयंकरे ॥ ११ ॥
गजारोहा गजारोहान्नाराचशरतोमरैः ।संसक्ताः पातयामासुस्तव तेषां च संघशः ॥ १२ ॥
पत्तिसंघा रणे पत्तीन्भिण्डिपालपरश्वधैः ।न्यपातयन्त संहृष्टाः परस्परकृतागसः ॥ १३ ॥
पदाती रथिनं संख्ये रथी चापि पदातिनम् ।न्यपातयच्छितैः शस्त्रैः सेनयोरुभयोरपि ॥ १४ ॥
गजारोहा हयारोहान्पातयां चक्रिरे तदा ।हयारोहा गजस्थांश्च तदद्भुतमिवाभवत् ॥ १५ ॥
गजारोहवरैश्चापि तत्र तत्र पदातयः ।पातिताः समदृश्यन्त तैश्चापि गजयोधिनः ॥ १६ ॥
पत्तिसंघा हयारोहैः सादिसंघाश्च पत्तिभिः ।पात्यमाना व्यदृश्यन्त शतशोऽथ सहस्रशः ॥ १७ ॥
ध्वजैस्तत्रापविद्धैश्च कार्मुकैस्तोमरैस्तथा ।प्रासैस्तथा गदाभिश्च परिघैः कम्पनैस्तथा ॥ १८ ॥
शक्तिभिः कवचैश्चित्रैः कणपैरङ्कुशैरपि ।निस्त्रिंशैर्विमलैश्चापि स्वर्णपुङ्खैः शरैस्तथा ॥ १९ ॥
परिस्तोमैः कुथाभिश्च कम्बलैश्च महाधनैः ।भूर्भाति भरतश्रेष्ठ स्रग्दामैरिव चित्रिता ॥ २० ॥
नराश्वकायैः पतितैर्दन्तिभिश्च महाहवे ।अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ २१ ॥
प्रशशाम रजो भौमं व्युक्षितं रणशोणितैः ।दिशश्च विमलाः सर्वाः संबभूवुर्जनेश्वर ॥ २२ ॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।चिह्नभूतानि जगतो विनाशार्थाय भारत ॥ २३ ॥
तस्मिन्युद्धे महारौद्रे वर्तमाने सुदारुणे ।प्रत्यदृश्यन्त रथिनो धावमानाः समन्ततः ॥ २४ ॥
ततो द्रोणश्च भीष्मश्च सैन्धवश्च जयद्रथः ।पुरुमित्रो विकर्णश्च शकुनिश्चापि सौबलः ॥ २५ ॥
एते समरदुर्धर्षाः सिंहतुल्यपराक्रमाः ।पाण्डवानामनीकानि बभञ्जुः स्म पुनः पुनः ॥ २६ ॥
तथैव भीमसेनोऽपि राक्षसश्च घटोत्कचः ।सात्यकिश्चेकितानश्च द्रौपदेयाश्च भारत ॥ २७ ॥
तावकांस्तव पुत्रांश्च सहितान्सर्वराजभिः ।द्रावयामासुराजौ ते त्रिदशा दानवानिव ॥ २८ ॥
तथा ते समरेऽन्योन्यं निघ्नन्तः क्षत्रियर्षभाः ।रक्तोक्षिता घोररूपा विरेजुर्दानवा इव ॥ २९ ॥
विनिर्जित्य रिपून्वीराः सेनयोरुभयोरपि ।व्यदृश्यन्त महामात्रा ग्रहा इव नभस्तले ॥ ३० ॥
ततो रथसहस्रेण पुत्रो दुर्योधनस्तव ।अभ्ययात्पाण्डवान्युद्धे राक्षसं च घटोत्कचम् ॥ ३१ ॥
तथैव पाण्डवाः सर्वे महत्या सेनया सह ।द्रोणभीष्मौ रणे शूरौ प्रत्युद्ययुररिंदमौ ॥ ३२ ॥
किरीटी तु ययौ क्रुद्धः समर्थान्पार्थिवोत्तमान् ।आर्जुनिः सात्यकिश्चैव ययतुः सौबलं बलम् ॥ ३३ ॥
ततः प्रववृते भूयः संग्रामो लोमहर्षणः ।तावकानां परेषां च समरे विजिगीषताम् ॥ ३४ ॥
« »