Click on words to see what they mean.

संजय उवाच ।गतापराह्णभूयिष्ठे तस्मिन्नहनि भारत ।रथनागाश्वपत्तीनां सादिनां च महाक्षये ॥ १ ॥
द्रोणपुत्रेण शल्येन कृपेण च महात्मना ।समसज्जत पाञ्चाल्यस्त्रिभिरेतैर्महारथैः ॥ २ ॥
स लोकविदितानश्वान्निजघान महाबलः ।द्रौणेः पाञ्चालदायादः शितैर्दशभिराशुगैः ॥ ३ ॥
ततः शल्यरथं तूर्णमास्थाय हतवाहनः ।द्रौणिः पाञ्चालदायादमभ्यवर्षदथेषुभिः ॥ ४ ॥
धृष्टद्युम्नं तु संसक्तं द्रौणिना दृश्य भारत ।सौभद्रोऽभ्यपतत्तूर्णं विकिरन्निशिताञ्शरान् ॥ ५ ॥
स शल्यं पञ्चविंशत्या कृपं च नवभिः शरैः ।अश्वत्थामानमष्टाभिर्विव्याध पुरुषर्षभ ॥ ६ ॥
आर्जुनिं तु ततस्तूर्णं द्रौणिर्विव्याध पत्रिणा ।शल्यो द्वादशभिश्चैव कृपश्च निशितैस्त्रिभिः ॥ ७ ॥
लक्ष्मणस्तव पौत्रस्तु तव पौत्रमवस्थितम् ।अभ्यवर्तत संहृष्टस्ततो युद्धमवर्तत ॥ ८ ॥
दौर्योधनिस्तु संक्रुद्धः सौभद्रं नवभिः शरैः ।विव्याध समरे राजंस्तदद्भुतमिवाभवत् ॥ ९ ॥
अभिमन्युस्तु संक्रुद्धो भ्रातरं भरतर्षभ ।शरैः पञ्चाशता राजन्क्षिप्रहस्तोऽभ्यविध्यत ॥ १० ॥
लक्ष्मणोऽपि ततस्तस्य धनुश्चिच्छेद पत्रिणा ।मुष्टिदेशे महाराज तत उच्चुक्रुशुर्जनाः ॥ ११ ॥
तद्विहाय धनुश्छिन्नं सौभद्रः परवीरहा ।अन्यदादत्तवांश्चित्रं कार्मुकं वेगवत्तरम् ॥ १२ ॥
तौ तत्र समरे हृष्टौ कृतप्रतिकृतैषिणौ ।अन्योन्यं विशिखैस्तीक्ष्णैर्जघ्नतुः पुरुषर्षभौ ॥ १३ ॥
ततो दुर्योधनो राजा दृष्ट्वा पुत्रं महारथम् ।पीडितं तव पौत्रेण प्रायात्तत्र जनेश्वरः ॥ १४ ॥
संनिवृत्ते तव सुते सर्व एव जनाधिपाः ।आर्जुनिं रथवंशेन समन्तात्पर्यवारयन् ॥ १५ ॥
स तैः परिवृतः शूरैः शूरो युधि सुदुर्जयैः ।न स्म विव्यथते राजन्कृष्णतुल्यपराक्रमः ॥ १६ ॥
सौभद्रमथ संसक्तं तत्र दृष्ट्वा धनंजयः ।अभिदुद्राव संक्रुद्धस्त्रातुकामः स्वमात्मजम् ॥ १७ ॥
ततः सरथनागाश्वा भीष्मद्रोणपुरोगमाः ।अभ्यवर्तन्त राजानः सहिताः सव्यसाचिनम् ॥ १८ ॥
उद्धूतं सहसा भौमं नागाश्वरथसादिभिः ।दिवाकरपथं प्राप्य रजस्तीव्रमदृश्यत ॥ १९ ॥
तानि नागसहस्राणि भूमिपालशतानि च ।तस्य बाणपथं प्राप्य नाभ्यवर्तन्त सर्वशः ॥ २० ॥
प्रणेदुः सर्वभूतानि बभूवुस्तिमिरा दिशः ।कुरूणामनयस्तीव्रः समदृश्यत दारुणः ॥ २१ ॥
नाप्यन्तरिक्षं न दिशो न भूमिर्न च भास्करः ।प्रजज्ञे भरतश्रेष्ठ शरसंघैः किरीटिनः ॥ २२ ॥
सादितध्वजनागास्तु हताश्वा रथिनो भृशम् ।विप्रद्रुतरथाः केचिद्दृश्यन्ते रथयूथपाः ॥ २३ ॥
विरथा रथिनश्चान्ये धावमानाः समन्ततः ।तत्र तत्रैव दृश्यन्ते सायुधाः साङ्गदैर्भुजैः ॥ २४ ॥
हयारोहा हयांस्त्यक्त्वा गजारोहाश्च दन्तिनः ।अर्जुनस्य भयाद्राजन्समन्ताद्विप्रदुद्रुवुः ॥ २५ ॥
रथेभ्यश्च गजेभ्यश्च हयेभ्यश्च नराधिपाः ।पतिताः पात्यमानाश्च दृश्यन्तेऽर्जुनताडिताः ॥ २६ ॥
सगदानुद्यतान्बाहून्सखड्गांश्च विशां पते ।सप्रासांश्च सतूणीरान्सशरान्सशरासनान् ॥ २७ ॥
साङ्कुशान्सपताकांश्च तत्र तत्रार्जुनो नृणाम् ।निचकर्त शरैरुग्रै रौद्रं बिभ्रद्वपुस्तदा ॥ २८ ॥
परिघाणां प्रवृद्धानां मुद्गराणां च मारिष ।प्रासानां भिण्डिपालानां निस्त्रिंशानां च संयुगे ॥ २९ ॥
परश्वधानां तीक्ष्णानां तोमराणां च भारत ।वर्मणां चापविद्धानां कवचानां च भूतले ॥ ३० ॥
ध्वजानां चर्मणां चैव व्यजनानां च सर्वशः ।छत्राणां हेमदण्डानां चामराणां च भारत ॥ ३१ ॥
प्रतोदानां कशानां च योक्त्राणां चैव मारिष ।राशयश्चात्र दृश्यन्ते विनिकीर्णा रणक्षितौ ॥ ३२ ॥
नासीत्तत्र पुमान्कश्चित्तव सैन्यस्य भारत ।योऽर्जुनं समरे शूरं प्रत्युद्यायात्कथंचन ॥ ३३ ॥
यो यो हि समरे पार्थं प्रत्युद्याति विशां पते ।स स वै विशिखैस्तीक्ष्णैः परलोकाय नीयते ॥ ३४ ॥
तेषु विद्रवमाणेषु तव योधेषु सर्वशः ।अर्जुनो वासुदेवश्च दध्मतुर्वारिजोत्तमौ ॥ ३५ ॥
तत्प्रभग्नं बलं दृष्ट्वा पिता देवव्रतस्तव ।अब्रवीत्समरे शूरं भारद्वाजं स्मयन्निव ॥ ३६ ॥
एष पाण्डुसुतो वीरः कृष्णेन सहितो बली ।तथा करोति सैन्यानि यथा कुर्याद्धनंजयः ॥ ३७ ॥
न ह्येष समरे शक्यो जेतुमद्य कथंचन ।यथास्य दृश्यते रूपं कालान्तकयमोपमम् ॥ ३८ ॥
न निवर्तयितुं चापि शक्येयं महती चमूः ।अन्योन्यप्रेक्षया पश्य द्रवतीयं वरूथिनी ॥ ३९ ॥
एष चास्तं गिरिश्रेष्ठं भानुमान्प्रतिपद्यते ।वपूंषि सर्वलोकस्य संहरन्निव सर्वथा ॥ ४० ॥
तत्रावहारं संप्राप्तं मन्येऽहं पुरुषर्षभ ।श्रान्ता भीताश्च नो योधा न योत्स्यन्ति कथंचन ॥ ४१ ॥
एवमुक्त्वा ततो भीष्मो द्रोणमाचार्यसत्तमम् ।अवहारमथो चक्रे तावकानां महारथः ॥ ४२ ॥
ततोऽवहारः सैन्यानां तव तेषां च भारत ।अस्तं गच्छति सूर्येऽभूत्संध्याकाले च वर्तति ॥ ४३ ॥
« »