Click on words to see what they mean.

संजय उवाच ।ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् ।पुनरेव महानादं व्यसृजन्त महारथाः ॥ १ ॥
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ॥ २ ॥
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥ ३ ॥
अथ देवाः सगन्धर्वाः पितरश्च जनेश्वर ।सिद्धचारणसंघाश्च समीयुस्ते दिदृक्षया ॥ ४ ॥
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् ।समीयुस्तत्र सहिता द्रष्टुं तद्वैशसं महत् ॥ ५ ॥
ततो युधिष्ठिरो दृष्ट्वा युद्धाय सुसमुद्यते ।ते सेने सागरप्रख्ये मुहुः प्रचलिते नृप ॥ ६ ॥
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् ।अवरुह्य रथात्तूर्णं पद्भ्यामेव कृताञ्जलिः ॥ ७ ॥
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः ।वाग्यतः प्रययौ येन प्राङ्मुखो रिपुवाहिनीम् ॥ ८ ॥
तं प्रयान्तमभिप्रेक्ष्य कुन्तीपुत्रो धनंजयः ।अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥ ९ ॥
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम ह ।यथामुख्याश्च राजानस्तमन्वाजग्मुरुत्सुकाः ॥ १० ॥
अर्जुन उवाच ।किं ते व्यवसितं राजन्यदस्मानपहाय वै ।पद्भ्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥ ११ ॥
भीमसेन उवाच ।क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः ।दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥ १२ ॥
नकुल उवाच ।एवंगते त्वयि ज्येष्ठे मम भ्रातरि भारत ।भीर्मे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥ १३ ॥
सहदेव उवाच ।अस्मिन्रणसमूहे वै वर्तमाने महाभये ।योद्धव्ये क्व नु गन्तासि शत्रूनभिमुखो नृप ॥ १४ ॥
संजय उवाच ।एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दन ।नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ॥ १५ ॥
तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥ १६ ॥
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च ।अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥ १७ ॥
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः ।युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥ १८ ॥
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः ।ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥ १९ ॥
एवं ब्रुवति कृष्णे तु धार्तराष्ट्रचमूं प्रति ।हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥ २० ॥
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।मिथः संकथयां चक्रुर्नेशोऽस्ति कुलपांसनः ॥ २१ ॥
व्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकात् ।युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥ २२ ॥
धनंजये कथं नाथे पाण्डवे च वृकोदरे ।नकुले सहदेवे च भीतोऽभ्येति च पाण्डवः ॥ २३ ॥
न नूनं क्षत्रियकुले जातः संप्रथिते भुवि ।यथास्य हृदयं भीतमल्पसत्त्वस्य संयुगे ॥ २४ ॥
ततस्ते क्षत्रियाः सर्वे प्रशंसन्ति स्म कौरवान् ।हृष्टाः सुमनसो भूत्वा चैलानि दुधुवुः पृथक् ॥ २५ ॥
व्यनिन्दन्त ततः सर्वे योधास्तत्र विशां पते ।युधिष्ठिरं ससोदर्यं सहितं केशवेन ह ॥ २६ ॥
ततस्तत्कौरवं सैन्यं धिक्कृत्वा तु युधिष्ठिरम् ।निःशब्दमभवत्तूर्णं पुनरेव विशां पते ॥ २७ ॥
किं नु वक्ष्यति राजासौ किं भीष्मः प्रतिवक्ष्यति ।किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥ २८ ॥
विवक्षितं किमस्येति संशयः सुमहानभूत् ।उभयोः सेनयो राजन्युधिष्ठिरकृते तदा ॥ २९ ॥
स विगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् ।भीष्ममेवाभ्ययात्तूर्णं भ्रातृभिः परिवारितः ॥ ३० ॥
तमुवाच ततः पादौ कराभ्यां पीड्य पाण्डवः ।भीष्मं शांतनवं राजा युद्धाय समुपस्थितम् ॥ ३१ ॥
युधिष्ठिर उवाच ।आमन्त्रये त्वां दुर्धर्ष योत्स्ये तात त्वया सह ।अनुजानीहि मां तात आशिषश्च प्रयोजय ॥ ३२ ॥
भीष्म उवाच ।यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते ।शपेयं त्वां महाराज पराभावाय भारत ॥ ३३ ॥
प्रीतोऽस्मि पुत्र युध्यस्व जयमाप्नुहि पाण्डव ।यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥ ३४ ॥
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि ।एवं गते महाराज न तवास्ति पराजयः ॥ ३५ ॥
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ ३६ ॥
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।हृतोऽस्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥ ३७ ॥
युधिष्ठिर उवाच ।मन्त्रयस्व महाप्राज्ञ हितैषी मम नित्यशः ।युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ ३८ ॥
भीष्म उवाच ।राजन्किमत्र साह्यं ते करोमि कुरुनन्दन ।कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥ ३९ ॥
युधिष्ठिर उवाच ।कथं जयेयं संग्रामे भवन्तमपराजितम् ।एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥ ४० ॥
भीष्म उवाच ।न तं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे ।विजयेत पुमान्कश्चिदपि साक्षाच्छतक्रतुः ॥ ४१ ॥
युधिष्ठिर उवाच ।हन्त पृच्छामि तस्मात्त्वां पितामह नमोऽस्तु ते ।जयोपायं ब्रवीहि त्वमात्मनः समरे परैः ॥ ४२ ॥
भीष्म उवाच ।न शत्रुं तात पश्यामि समरे यो जयेत माम् ।न तावन्मृत्युकालो मे पुनरागमनं कुरु ॥ ४३ ॥
संजय उवाच ।ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन ।शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ ४४ ॥
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति ।पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥ ४५ ॥
स द्रोणमभिवाद्याथ कृत्वा चैव प्रदक्षिणम् ।उवाच वाचा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ ४६ ॥
आमन्त्रये त्वां भगवन्योत्स्ये विगतकल्मषः ।जयेयं च रिपून्सर्वाननुज्ञातस्त्वया द्विज ॥ ४७ ॥
द्रोण उवाच ।यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।शपेयं त्वां महाराज पराभावाय सर्वशः ॥ ४८ ॥
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयानघ ।अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥ ४९ ॥
करवाणि च ते कामं ब्रूहि यत्तेऽभिकाङ्क्षितम् ।एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ ५० ॥
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ ५१ ॥
अतस्त्वां क्लीबवद्ब्रूमो युद्धादन्यत्किमिच्छसि ।योत्स्यामि कौरवस्यार्थे तवाशास्यो जयो मया ॥ ५२ ॥
युधिष्ठिर उवाच ।जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम् ।युध्यस्व कौरवस्यार्थे वर एष वृतो मया ॥ ५३ ॥
द्रोण उवाच ।ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव ।अहं च त्वाभिजानामि रणे शत्रून्विजेष्यसि ॥ ५४ ॥
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः ।युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥ ५५ ॥
युधिष्ठिर उवाच ।पृच्छामि त्वां द्विजश्रेष्ठ शृणु मे यद्विवक्षितम् ।कथं जयेयं संग्रामे भवन्तमपराजितम् ॥ ५६ ॥
द्रोण उवाच ।न तेऽस्ति विजयस्तावद्यावद्युध्याम्यहं रणे ।ममाशु निधने राजन्यतस्व सह सोदरैः ॥ ५७ ॥
युधिष्ठिर उवाच ।हन्त तस्मान्महाबाहो वधोपायं वदात्मनः ।आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥ ५८ ॥
द्रोण उवाच ।न शत्रुं तात पश्यामि यो मां हन्याद्रणे स्थितम् ।युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥ ५९ ॥
ऋते प्रायगतं राजन्न्यस्तशस्त्रमचेतनम् ।हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते ॥ ६० ॥
शस्त्रं चाहं रणे जह्यां श्रुत्वा सुमहदप्रियम् ।श्रद्धेयवाक्यात्पुरुषादेतत्सत्यं ब्रवीमि ते ॥ ६१ ॥
संजय उवाच ।एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः ।अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥ ६२ ॥
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् ।उवाच दुर्धर्षतमं वाक्यं वाक्यविशारदः ॥ ६३ ॥
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः ।जयेयं च रिपून्सर्वाननुज्ञातस्त्वयानघ ॥ ६४ ॥
कृप उवाच ।यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।शपेयं त्वां महाराज पराभावाय सर्वशः ॥ ६५ ॥
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ ६६ ॥
तेषामर्थे महाराज योद्धव्यमिति मे मतिः ।अतस्त्वां क्लीबवद्ब्रूमि युद्धादन्यत्किमिच्छसि ॥ ६७ ॥
युधिष्ठिर उवाच ।हन्त पृच्छामि ते तस्मादाचार्य शृणु मे वचः ॥ ६८ ॥
संजय उवाच ।इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ।तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम् ।अवध्योऽहं महीपाल युध्यस्व जयमाप्नुहि ॥ ६९ ॥
प्रीतस्त्वभिगमेनाहं जयं तव नराधिप ।आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ॥ ७० ॥
एतच्छ्रुत्वा महाराज गौतमस्य वचस्तदा ।अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ॥ ७१ ॥
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ ७२ ॥
अनुमानये त्वां योत्स्यामि गुरो विगतकल्मषः ।जयेयं च महाराज अनुज्ञातस्त्वया रिपून् ॥ ७३ ॥
शल्य उवाच ।यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः ।शपेयं त्वां महाराज पराभावाय वै रणे ॥ ७४ ॥
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते ।अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ॥ ७५ ॥
ब्रूहि चैव परं वीर केनार्थः किं ददामि ते ।एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ ७६ ॥
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ ७७ ॥
करिष्यामि हि ते कामं भागिनेय यथेप्सितम् ।ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ॥ ७८ ॥
युधिष्ठिर उवाच ।मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम् ।कामं युध्य परस्यार्थे वरमेतद्वृणोम्यहम् ॥ ७९ ॥
शल्य उवाच ।ब्रूहि किमत्र साह्यं ते करोमि नृपसत्तम ।कामं योत्स्ये परस्यार्थे वृतोऽस्म्यर्थेन कौरवैः ॥ ८० ॥
युधिष्ठिर उवाच ।स एव मे वरः सत्य उद्योगे यस्त्वया कृतः ।सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया ॥ ८१ ॥
शल्य उवाच ।संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितः ।गच्छ युध्यस्व विस्रब्धं प्रतिजाने जयं तव ॥ ८२ ॥
संजय उवाच ।अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् ।निर्जगाम महासैन्याद्भ्रातृभिः परिवारितः ॥ ८३ ॥
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै ।तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥ ८४ ॥
श्रुतं मे कर्ण भीष्मस्य द्वेषात्किल न योत्स्यसि ।अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥ ८५ ॥
हते तु भीष्मे राधेय पुनरेष्यसि संयुगे ।धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥ ८६ ॥
कर्ण उवाच ।न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव ।त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ॥ ८७ ॥
संजय उवाच ।तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत ।युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः ॥ ८८ ॥
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः ।योऽस्मान्वृणोति तदहं वरये साह्यकारणात् ॥ ८९ ॥
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् ।प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ ९० ॥
अहं योत्स्यामि मिषतः संयुगे धार्तराष्ट्रजान् ।युष्मदर्थे महाराज यदि मां वृणुषेऽनघ ॥ ९१ ॥
युधिष्ठिर उवाच ।एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान् ।युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ॥ ९२ ॥
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात् ।त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥ ९३ ॥
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते ।न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ॥ ९४ ॥
संजय उवाच ।ततो युयुत्सुः कौरव्यः परित्यज्य सुतांस्तव ।जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिम् ॥ ९५ ॥
ततो युधिष्ठिरो राजा संप्रहृष्टः सहानुजैः ।जग्राह कवचं भूयो दीप्तिमत्कनकोज्ज्वलम् ॥ ९६ ॥
प्रत्यपद्यन्त ते सर्वे रथान्स्वान्पुरुषर्षभाः ।ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥ ९७ ॥
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् ।सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥ ९८ ॥
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः ।धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे मुदा ॥ ९९ ॥
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान् ।दृष्ट्वा महीक्षितस्तत्र पूजयां चक्रिरे भृशम् ॥ १०० ॥
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् ।दयां च ज्ञातिषु परां कथयां चक्रिरे नृपाः ॥ १०१ ॥
साधु साध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः ।वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षिणीः ॥ १०२ ॥
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तदा ।वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥ १०३ ॥
ततो जघ्नुर्महाभेरीः शतशश्चैव पुष्करान् ।शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ॥ १०४ ॥
« »