Click on words to see what they mean.

जनमेजय उवाच ।कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः ।पार्थिवाश्च महाभागा नानादेशसमागताः ॥ १ ॥
वैशंपायन उवाच ।यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।कुरुक्षेत्रे तपःक्षेत्रे शृणु तत्पृथिवीपते ॥ २ ॥
अवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः ।कौरवानभ्यवर्तन्त जिगीषन्तो महाबलाः ॥ ३ ॥
वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः ।आशंसन्तो जयं युद्धे वधं वाभिमुखा रणे ॥ ४ ॥
अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् ।प्राङ्मुखाः पश्चिमे भागे न्यविशन्त ससैनिकाः ॥ ५ ॥
समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः ।कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥ ६ ॥
शून्येव पृथिवी सर्वा बालवृद्धावशेषिता ।निरश्वपुरुषा चासीद्रथकुञ्जरवर्जिता ॥ ७ ॥
यावत्तपति सूर्यो हि जम्बूद्वीपस्य मण्डलम् ।तावदेव समावृत्तं बलं पार्थिवसत्तम ॥ ८ ॥
एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥ ९ ॥
तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥ १० ॥
संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः ।एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥ ११ ॥
अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।योजयामास कौरव्यो युद्धकाल उपस्थिते ॥ १२ ॥
दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः ।सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ॥ १३ ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ॥ १४ ॥
दृष्ट्वा दुर्योधनं हृष्टाः सर्वे पाण्डवसैनिकाः ।दध्मुः सर्वे महाशङ्खान्भेरीर्जघ्नुः सहस्रशः ॥ १५ ॥
ततः प्रहृष्टां स्वां सेनामभिवीक्ष्याथ पाण्डवाः ।बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥ १६ ॥
ततो योधान्हर्षयन्तौ वासुदेवधनंजयौ ।दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥ १७ ॥
पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः ।श्रुत्वा सवाहना योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥ १८ ॥
यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।त्रसेयुस्तद्वदेवासीद्धार्तराष्ट्रबलं तदा ॥ १९ ॥
उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।अन्तर्धीयत चादित्यः सैन्येन रजसावृतः ॥ २० ॥
ववर्ष चात्र पर्जन्यो मांसशोणितवृष्टिमान् ।व्युक्षन्सर्वाण्यनीकानि तदद्भुतमिवाभवत् ॥ २१ ॥
वायुस्ततः प्रादुरभून्नीचैः शर्करकर्षणः ।विनिघ्नंस्तान्यनीकानि विधमंश्चैव तद्रजः ॥ २२ ॥
उभे सेने तदा राजन्युद्धाय मुदिते भृशम् ।कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥ २३ ॥
तयोस्तु सेनयोरासीदद्भुतः स समागमः ।युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥ २४ ॥
शून्यासीत्पृथिवी सर्वा बालवृद्धावशेषिता ।तेन सेनासमूहेन समानीतेन कौरवैः ॥ २५ ॥
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ।धर्मांश्च स्थापयामासुर्युद्धानां भरतर्षभ ॥ २६ ॥
निवृत्ते चैव नो युद्धे प्रीतिश्च स्यात्परस्परम् ।यथापुरं यथायोगं न च स्याच्छलनं पुनः ॥ २७ ॥
वाचा युद्धे प्रवृत्ते नो वाचैव प्रतियोधनम् ।निष्क्रान्तः पृतनामध्यान्न हन्तव्यः कथंचन ॥ २८ ॥
रथी च रथिना योध्यो गजेन गजधूर्गतः ।अश्वेनाश्वी पदातिश्च पदातेनैव भारत ॥ २९ ॥
यथायोगं यथावीर्यं यथोत्साहं यथावयः ।समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥ ३० ॥
परेण सह संयुक्तः प्रमत्तो विमुखस्तथा ।क्षीणशस्त्रो विवर्मा च न हन्तव्यः कथंचन ॥ ३१ ॥
न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।न भेरीशङ्खवादेषु प्रहर्तव्यं कथंचन ॥ ३२ ॥
एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥ ३३ ॥
निविश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥ ३४ ॥
« »