Click on words to see what they mean.

धृतराष्ट्र उवाच ।सर्व एते महोत्साहा ये त्वया परिकीर्तिताः ।एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥ १ ॥
भीमसेनाद्धि मे भूयो भयं संजायते महत् ।क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥ २ ॥
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् ।भीतो वृकोदरात्तात सिंहात्पशुरिवाबलः ॥ ३ ॥
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः ।सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥ ४ ॥
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥ ५ ॥
महावेगो महोत्साहो महाबाहुर्महाबलः ।मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ ६ ॥
ऊरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः ।कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥ ७ ॥
शैक्यायसमयीं घोरां गदां काञ्चनभूषिताम् ।मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥ ८ ॥
यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत् ।मामकेषु तथा भीमो बलेषु विचरिष्यति ॥ ९ ॥
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः ।बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥ १० ॥
उद्वेपते मे हृदयं यदा दुर्योधनादयः ।बाल्येऽपि तेन युध्यन्तो वारणेनेव मर्दिताः ॥ ११ ॥
तस्य वीर्येण संक्लिष्टा नित्यमेव सुता मम ।स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥ १२ ॥
ग्रसमानमनीकानि नरवारणवाजिनाम् ।पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥ १३ ॥
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे ।संजयाचक्ष्व मे शूरं भीमसेनममर्षणम् ॥ १४ ॥
अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना ।तदैव न हताः सर्वे मम पुत्रा मनस्विना ॥ १५ ॥
येन भीमबला यक्षा राक्षसाश्च समाहताः ।कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥ १६ ॥
न स जातु वशे तस्थौ मम बालोऽपि संजय ।किं पुनर्मम दुष्पुत्रैः क्लिष्टः संप्रति पाण्डवः ॥ १७ ॥
निष्ठुरः स च नैष्ठुर्याद्भज्येदपि न संनमेत् ।तिर्यक्प्रेक्षी संहतभ्रूः कथं शाम्येद्वृकोदरः ॥ १८ ॥
बृहदंसोऽप्रतिबलो गौरस्ताल इवोद्गतः ।प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥ १९ ॥
जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् ।अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥ २० ॥
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा ।रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥ २१ ॥
आयसेन स दण्डेन रथान्नागान्हयान्नरान् ।हनिष्यति रणे क्रुद्धो भीमः प्रहरतां वरः ॥ २२ ॥
अमर्षी नित्यसंरब्धो रौद्रः क्रूरपराक्रमः ।मम तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥ २३ ॥
निष्कीर्णामायसीं स्थूलां सुपर्वां काञ्चनीं गदाम् ।शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥ २४ ॥
अपारमप्लवागाधं समुद्रं शरवेगिनम् ।भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥ २५ ॥
क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः ।विषमं नावबुध्यन्ते प्रपातं मधुदर्शिनः ॥ २६ ॥
संयुगं ये करिष्यन्ति नररूपेण वायुना ।नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥ २७ ॥
शैक्यां तात चतुष्किष्कुं षडस्रिममितौजसम् ।प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥ २८ ॥
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् ।सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥ २९ ॥
उद्दिश्य पातान्पततः कुर्वतो भैरवान्रवान् ।प्रतीपान्पततो मत्तान्कुञ्जरान्प्रतिगर्जतः ॥ ३० ॥
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः ।अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥ ३१ ॥
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् ।नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥ ३२ ॥
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् ।प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥ ३३ ॥
कुर्वन्रथान्विपुरुषान्विध्वजान्भग्नपुष्करान् ।आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥ ३४ ॥
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् ।प्रवेक्ष्यति महासेनां पुत्राणां मम संजय ॥ ३५ ॥
वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः ।मम पुत्राश्च भृत्याश्च राजानश्चैव संजय ॥ ३६ ॥
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा ।वासुदेवसहायेन जरासंधो निपातितः ॥ ३७ ॥
कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता ।मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥ ३८ ॥
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः ।ते न तस्य वशं जग्मुः केवलं दैवमेव वा ॥ ३९ ॥
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना ।अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥ ४० ॥
दीर्घकालेन संसिक्तं विषमाशीविषो यथा ।स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय ॥ ४१ ॥
महेन्द्र इव वज्रेण दानवान्देवसत्तमः ।भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥ ४२ ॥
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥ ४३ ॥
अगदस्याप्यधनुषो विरथस्य विवर्मणः ।बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥ ४४ ॥
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा ।जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ॥ ४५ ॥
आर्यव्रतं तु जानन्तः संगरान्न बिभित्सवः ।सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥ ४६ ॥
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः ।पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥ ४७ ॥
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः ।त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥ ४८ ॥
यथैषां मामकास्तात तथैषां पाण्डवा अपि ।पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥ ४९ ॥
यत्त्वस्मदाश्रयं किंचिद्दत्तमिष्टं च संजय ।तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥ ५० ॥
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः ।निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् ॥ ५१ ॥
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् ।विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ॥ ५२ ॥
न तु मन्ये विघाताय ज्ञानं दुःखस्य संजय ।भवत्यतिबले ह्येतज्ज्ञानमप्युपघातकम् ॥ ५३ ॥
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान् ।सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥ ५४ ॥
किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा ।पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥ ५५ ॥
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम् ।विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ॥ ५६ ॥
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् ।मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥ ५७ ॥
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः ।चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥ ५८ ॥
किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय ।एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥ ५९ ॥
अवशोऽहं पुरा तात पुत्राणां निहते शते ।श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥ ६० ॥
यथा निदाघे ज्वलनः समिद्धो दहेत्कक्षं वायुना चोद्यमानः ।गदाहस्तः पाण्डवस्तद्वदेव हन्ता मदीयान्सहितोऽर्जुनेन ॥ ६१ ॥
« »