Click on words to see what they mean.

धृतराष्ट्र उवाच ।किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत ।श्रुत्वेमा बहुलाः सेनाः प्रत्यर्थेन समागताः ॥ १ ॥
किमिच्छत्यभिसंरम्भाद्योत्स्यमानो युधिष्ठिरः ।कस्य स्विद्भ्रातृपुत्राणां चिन्तासु मुखमीक्षते ॥ २ ॥
के स्विदेनं वारयन्ति शाम्य युध्येति वा पुनः ।निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥ ३ ॥
संजय उवाच ।राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह ।युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥ ४ ॥
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः ।आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥ ५ ॥
तमः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् ।पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोद्यतम् ॥ ६ ॥
आ गोपालाविपालेभ्यो नन्दमानं युधिष्ठिरम् ।पाञ्चालाः केकया मत्स्याः प्रतिनन्दन्ति पाण्डवम् ॥ ७ ॥
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः ।क्रीडन्त्योऽभिसमायान्ति पार्थं संनद्धमीक्षितुम् ॥ ८ ॥
धृतराष्ट्र उवाच ।संजयाचक्ष्व केनास्मान्पाण्डवा अभ्ययुञ्जत ।धृष्टद्युम्नेन सेनान्या सोमकाः किंबला इव ॥ ९ ॥
वैशंपायन उवाच ।गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि ।निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्निव ।तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् ॥ १० ॥
तदाचचक्षे पुरुषः सभायां राजसंसदि ।संजयोऽयं महाराज मूर्च्छितः पतितो भुवि ।वाचं न सृजते कांचिद्धीनप्रज्ञोऽल्पचेतनः ॥ ११ ॥
धृतराष्ट्र उवाच ।अपश्यत्संजयो नूनं कुन्तीपुत्रान्महारथान् ।तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥ १२ ॥
वैशंपायन उवाच ।संजयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत् ।धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥ १३ ॥
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् ।मत्स्यराजगृहावासादवरोधेन कर्शितान् ।शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत ॥ १४ ॥
यो नैव रोषान्न भयान्न कामान्नार्थकारणात् ।न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कथंचन ॥ १५ ॥
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः ।अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥ १६ ॥
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन ।यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः ।तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥ १७ ॥
निःसृतानां जतुगृहाद्धिडिम्बात्पुरुषादकात् ।य एषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ १८ ॥
याज्ञसेनीमथो यत्र सिन्धुराजोऽपकृष्टवान् ।तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ १९ ॥
यश्च तान्संगतान्सर्वान्पाण्डवान्वारणावते ।दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥ २० ॥
कृष्णायाश्चरता प्रीतिं येन क्रोधवशा हताः ।प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ॥ २१ ॥
यस्य नागायुतं वीर्यं भुजयोः सारमर्पितम् ।तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥ २२ ॥
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः ।अजयद्यः पुरा वीरो युध्यमानं पुरंदरम् ॥ २३ ॥
यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् ।तोषयामास युद्धेन देवदेवमुमापतिम् ॥ २४ ॥
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः ।तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥ २५ ॥
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् ।स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥ २६ ॥
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता ।माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥ २७ ॥
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ।तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥ २८ ॥
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः ।अश्वत्थामा धृष्टकेतुः प्रद्युम्नो रुक्मिरेव च ॥ २९ ॥
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ।यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥ ३० ॥
तपश्चचार या घोरं काशिकन्या पुरा सती ।भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥ ३१ ॥
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् ।स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥ ३२ ॥
यः कलिङ्गान्समापेदे पाञ्चालो युद्धदुर्मदः ।शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥ ३३ ॥
यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल ।महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥ ३४ ॥
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।सुमृष्टकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥ ३५ ॥
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः ।तेन वो वृष्णिवीरेण युयुधानेन संगरः ॥ ३६ ॥
य आसीच्छरणं काले पाण्डवानां महात्मनाम् ।रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत ॥ ३७ ॥
यः स काशिपती राजा वाराणस्यां महारथः ।स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥ ३८ ॥
शिशुभिर्दुर्जयैः संख्ये द्रौपदेयैर्महात्मभिः ।आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत ॥ ३९ ॥
यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे ।तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत ॥ ४० ॥
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः ।दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ।तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत ॥ ४१ ॥
यः संश्रयः पाण्डवानां देवानामिव वासवः ।तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥ ४२ ॥
तथा चेदिपतेर्भ्राता शरभो भरतर्षभ ।करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥ ४३ ॥
जारासंधिः सहदेवो जयत्सेनश्च तावुभौ ।द्रुपदश्च महातेजा बलेन महता वृतः ।त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ॥ ४४ ॥
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः ।शतशो यानपाश्रित्य धर्मराजो व्यवस्थितः ॥ ४५ ॥
« »