Click on words to see what they mean.

वासुदेव उवाच ।उपपन्नमिदं वाक्यं सोमकानां धुरंधरे ।अर्थसिद्धिकरं राज्ञः पाण्डवस्य महौजसः ॥ १ ॥
एतच्च पूर्वकार्यं नः सुनीतमभिकाङ्क्षताम् ।अन्यथा ह्याचरन्कर्म पुरुषः स्यात्सुबालिशः ॥ २ ॥
किं तु संबन्धकं तुल्यमस्माकं कुरुपाण्डुषु ।यथेष्टं वर्तमानेषु पाण्डवेषु च तेषु च ॥ ३ ॥
ते विवाहार्थमानीता वयं सर्वे यथा भवान् ।कृते विवाहे मुदिता गमिष्यामो गृहान्प्रति ॥ ४ ॥
भवान्वृद्धतमो राज्ञां वयसा च श्रुतेन च ।शिष्यवत्ते वयं सर्वे भवामेह न संशयः ॥ ५ ॥
भवन्तं धृतराष्ट्रश्च सततं बहु मन्यते ।आचार्ययोः सखा चासि द्रोणस्य च कृपस्य च ॥ ६ ॥
स भवान्प्रेषयत्वद्य पाण्डवार्थकरं वचः ।सर्वेषां निश्चितं तन्नः प्रेषयिष्यति यद्भवान् ॥ ७ ॥
यदि तावच्छमं कुर्यान्न्यायेन कुरुपुंगवः ।न भवेत्कुरुपाण्डूनां सौभ्रात्रेण महान्क्षयः ॥ ८ ॥
अथ दर्पान्वितो मोहान्न कुर्याद्धृतराष्ट्रजः ।अन्येषां प्रेषयित्वा च पश्चादस्मान्समाह्वयेः ॥ ९ ॥
ततो दुर्योधनो मन्दः सहामात्यः सबान्धवः ।निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि ॥ १० ॥
वैशंपायन उवाच ।ततः सत्कृत्य वार्ष्णेयं विराटः पृथिवीपतिः ।गृहान्प्रस्थापयामास सगणं सहबान्धवम् ॥ ११ ॥
द्वारकां तु गते कृष्णे युधिष्ठिरपुरोगमाः ।चक्रुः सांग्रामिकं सर्वं विराटश्च महीपतिः ॥ १२ ॥
ततः संप्रेषयामास विराटः सह बान्धवैः ।सर्वेषां भूमिपालानां द्रुपदश्च महीपतिः ॥ १३ ॥
वचनात्कुरुसिंहानां मत्स्यपाञ्चालयोश्च ते ।समाजग्मुर्महीपालाः संप्रहृष्टा महाबलाः ॥ १४ ॥
तच्छ्रुत्वा पाण्डुपुत्राणां समागच्छन्महद्बलम् ।धृतराष्ट्रसुतश्चापि समानिन्ये महीपतीन् ॥ १५ ॥
समाकुला मही राजन्कुरुपाण्डवकारणात् ।तदा समभवत्कृत्स्ना संप्रयाणे महीक्षिताम् ॥ १६ ॥
बलानि तेषां वीराणामागच्छन्ति ततस्ततः ।चालयन्तीव गां देवीं सपर्वतवनामिमाम् ॥ १७ ॥
ततः प्रज्ञावयोवृद्धं पाञ्चाल्यः स्वपुरोहितम् ।कुरुभ्यः प्रेषयामास युधिष्ठिरमते तदा ॥ १८ ॥
« »