Click on words to see what they mean.

वैशंपायन उवाच ।ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत् ।सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ १ ॥
धृतराष्ट्र उवाच ।सनत्सुजात यदीदं शृणोमि मृत्युर्हि नास्तीति तवोपदेशम् ।देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् ॥ २ ॥
सनत्सुजात उवाच ।अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ ३ ॥
उभे सत्ये क्षत्रियाद्यप्रवृत्ते मोहो मृत्युः संमतो यः कवीनाम् ।प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ॥ ४ ॥
प्रमादाद्वै असुराः पराभवन्नप्रमादाद्ब्रह्मभूता भवन्ति ।न वै मृत्युर्व्याघ्र इवात्ति जन्तून्न ह्यस्य रूपमुपलभ्यते ह ॥ ५ ॥
यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावसन्नममृतं ब्रह्मचर्यम् ।पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥ ६ ॥
आस्यादेष निःसरते नराणां क्रोधः प्रमादो मोहरूपश्च मृत्युः ।ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति ॥ ७ ॥
ततस्तं देवा अनु विप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति ।कर्मोदये कर्मफलानुरागास्तत्रानु यान्ति न तरन्ति मृत्युम् ॥ ८ ॥
योऽभिध्यायन्नुत्पतिष्णून्निहन्यादनादरेणाप्रतिबुध्यमानः ।स वै मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥ ९ ॥
कामानुसारी पुरुषः कामाननु विनश्यति ।कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ॥ १० ॥
तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ ११ ॥
अभिध्या वै प्रथमं हन्ति चैनं कामक्रोधौ गृह्य चैनं तु पश्चात् ।एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ १२ ॥
अमन्यमानः क्षत्रिय किंचिदन्यन्नाधीयते तार्ण इवास्य व्याघ्रः ।क्रोधाल्लोभान्मोहमयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः ॥ १३ ॥
एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः ।विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ १४ ॥
धृतराष्ट्र उवाच ।येऽस्मिन्धर्मान्नाचरन्तीह केचित्तथा धर्मान्केचिदिहाचरन्ति ।धर्मः पापेन प्रतिहन्यते स्म उताहो धर्मः प्रतिहन्ति पापम् ॥ १५ ॥
सनत्सुजात उवाच ।उभयमेव तत्रोपभुज्यते फलं धर्मस्यैवेतरस्य च ।धर्मेणाधर्मं प्रणुदतीह विद्वान्धर्मो बलीयानिति तस्य विद्धि ॥ १६ ॥
धृतराष्ट्र उवाच ।यानिमानाहुः स्वस्य धर्मस्य लोकान्द्विजातीनां पुण्यकृतां सनातनान् ।तेषां परिक्रमान्कथयन्तस्ततोऽन्यान्नैतद्विद्वन्नैव कृतं च कर्म ॥ १७ ॥
सनत्सुजात उवाच ।येषां बले न विस्पर्धा बले बलवतामिव ।ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ॥ १८ ॥
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् ।अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत् ॥ १९ ॥
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् ।अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ २० ॥
यो वाकथयमानस्य आत्मानं नानुसंज्वरेत् ।ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ॥ २१ ॥
यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये ।एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ॥ २२ ॥
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः ।ज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन ॥ २३ ॥
को ह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति ।तस्माद्धि किंचित्क्षत्रिय ब्रह्मावसति पश्यति ॥ २४ ॥
अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः ।शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ २५ ॥
अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः ।ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥ २६ ॥
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन ।न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥ २७ ॥
यमप्रयतमानं तु मानयन्ति स मानितः ।न मान्यमानो मन्येत नामानादभिसंज्वरेत् ॥ २८ ॥
विद्वांसो मानयन्तीह इति मन्येत मानितः ।अधर्मविदुषो मूढा लोकशास्त्रविशारदाः ।न मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥ २९ ॥
न वै मानं च मौनं च सहितौ चरतः सदा ।अयं हि लोको मानस्य असौ मानस्य तद्विदुः ॥ ३० ॥
श्रीः सुखस्येह संवासः सा चापि परिपन्थिनी ।ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ ३१ ॥
द्वाराणि तस्या हि वदन्ति सन्तो बहुप्रकाराणि दुरावराणि ।सत्यार्जवे ह्रीर्दमशौचविद्याः षण्मानमोहप्रतिबाधनानि ॥ ३२ ॥
« »