Click on words to see what they mean.

धृतराष्ट्र उवाच ।ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः ।पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ॥ १ ॥
सनत्सुजात उवाच ।नैनं सामान्यृचो वापि न यजूंषि विचक्षण ।त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ २ ॥
न छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् ।नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥ ३ ॥
धृतराष्ट्र उवाच ।न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण ।अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ ४ ॥
सनत्सुजात उवाच ।अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते ।ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः ॥ ५ ॥
धृतराष्ट्र उवाच ।कथं समृद्धमप्यृद्धं तपो भवति केवलम् ।सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ ६ ॥
सनत्सुजात उवाच ।क्रोधादयो द्वादश यस्य दोषास्तथा नृशंसादि षडत्र राजन् ।धर्मादयो द्वादश चाततानाः शास्त्रे गुणा ये विदिता द्विजानाम् ॥ ७ ॥
क्रोधः कामो लोभमोहौ विवित्साकृपासूया मानशोकौ स्पृहा च ।ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नरेण ॥ ८ ॥
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते ।लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ॥ ९ ॥
विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोपं चपलोऽरक्षणश्च ।एते प्राप्ताः षण्नरान्पापधर्मान्प्रकुर्वते नोत सन्तः सुदुर्गे ॥ १० ॥
संभोगसंविद्द्विषमेधमानो दत्तानुतापी कृपणोऽबलीयान् ।वर्गप्रशंसी वनितासु द्वेष्टा एतेऽपरे सप्त नृशंसधर्माः ॥ ११ ॥
धर्मश्च सत्यं च दमस्तपश्च अमात्सर्यं ह्रीस्तितिक्षानसूया ।यज्ञश्च दानं च धृतिः श्रुतं च महाव्रता द्वादश ब्राह्मणस्य ॥ १२ ॥
यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः सर्वामपीमां पृथिवीं प्रशिष्यात् ।त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो नास्य स्वमस्तीति स वेदितव्यः ॥ १३ ॥
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् ।तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ १४ ॥
दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते ।अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ १५ ॥
क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च ।मत्सरश्च विवित्सा च परितापस्तथा रतिः ॥ १६ ॥
अपस्मारः सातिवादस्तथा संभावनात्मनि ।एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते ॥ १७ ॥
श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति ।अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति ॥ १८ ॥
इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत् ।अर्हते याचमानाय प्रदेयं तद्वचो भवेत् ।अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः ॥ १९ ॥
त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः ।न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा ।सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ २० ॥
अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत् ।इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत ।अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् ॥ २१ ॥
दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम् ।एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ।यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि ॥ २२ ॥
धृतराष्ट्र उवाच ।आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः ।तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ॥ २३ ॥
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे ।तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् ॥ २४ ॥
सनत्सुजात उवाच ।एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन् ।सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ।एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते ॥ २५ ॥
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ।सत्यात्प्रच्यवमानानां संकल्पो वितथो भवेत् ॥ २६ ॥
ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात् ।मनसान्यस्य भवति वाचान्यस्योत कर्मणा ।संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति ॥ २७ ॥
अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत् ।नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ।ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ॥ २८ ॥
विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम् ।तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् ।य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ २९ ॥
छन्दांसि नाम क्षत्रिय तान्यथर्वा जगौ पुरस्तादृषिसर्ग एषः ।छन्दोविदस्ते य उ तानधीत्य न वेद्यवेदस्य विदुर्न वेद्यम् ॥ ३० ॥
न वेदानां वेदिता कश्चिदस्ति कश्चिद्वेदान्बुध्यते वापि राजन् ।यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ ३१ ॥
अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम् ।यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् ॥ ३२ ॥
तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् ।नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथंचन ॥ ३३ ॥
तूष्णींभूत उपासीत न चेष्टेन्मनसा अपि ।अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् ॥ ३४ ॥
मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः ।अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ ३५ ॥
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते ।प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ॥ ३६ ॥
सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय ।वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ३७ ॥
« »