Click on words to see what they mean.

संजय उवाच ।प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव ।मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत ॥ १ ॥
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम् ।प्रभूतनरनागाश्वं महारथसमाकुलम् ॥ २ ॥
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः ।लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः ॥ ३ ॥
अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम् ।सेनासागरमक्षोभ्यमपि देवैर्महाहवे ॥ ४ ॥
केन कालेन गाङ्गेय क्षपयेथा महाद्युते ।आचार्यो वा महेष्वासः कृपो वा सुमहाबलः ॥ ५ ॥
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः ।दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम ॥ ६ ॥
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे ।हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम ॥ ७ ॥
भीष्म उवाच ।अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते ।बलाबलममित्राणां स्वेषां च यदि पृच्छसि ॥ ८ ॥
शृणु राजन्मम रणे या शक्तिः परमा भवेत् ।अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज ॥ ९ ॥
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः ।मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः ॥ १० ॥
हन्यामहं महाबाहो पाण्डवानामनीकिनीम् ।दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम ॥ ११ ॥
योधानां दशसाहस्रं कृत्वा भागं महाद्युते ।सहस्रं रथिनामेकमेष भागो मतो मम ॥ १२ ॥
अनेनाहं विधानेन संनद्धः सततोत्थितः ।क्षपयेयं महत्सैन्यं कालेनानेन भारत ॥ १३ ॥
यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः ।शतसाहस्रघातीनि हन्यां मासेन भारत ॥ १४ ॥
संजय उवाच ।श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा ।पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् ॥ १५ ॥
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् ।निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव ॥ १६ ॥
स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः ।अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् ॥ १७ ॥
यथा भीष्मः शांतनवो मासेनेति मतिर्मम ।एषा मे परमा शक्तिरेतन्मे परमं बलम् ॥ १८ ॥
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् ।द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् ।कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् ॥ १९ ॥
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः ।जहास सस्वनं हासं वाक्यं चेदमुवाच ह ॥ २० ॥
न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम् ।वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम् ॥ २१ ॥
समागच्छसि राधेय तेनैवमभिमन्यसे ।शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः ॥ २२ ॥
« »