Click on words to see what they mean.

भीष्म उवाच ।शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ ।प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ।भवितव्यं तथा तद्धि मम दुःखाय कौरव ॥ १ ॥
भद्रे कामं करिष्यामि समयं तु निबोध मे ।किंचित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव ।आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते ॥ २ ॥
प्रभुः संकल्पसिद्धोऽस्मि कामरूपी विहंगमः ।मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान् ॥ ३ ॥
स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे ।सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ॥ ४ ॥
शिखण्ड्युवाच ।प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव ।किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥ ५ ॥
प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि ।कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि ॥ ६ ॥
भीष्म उवाच ।इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप ।अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः ॥ ७ ॥
स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप ।यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ॥ ८ ॥
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव ।विवेश नगरं हृष्टः पितरं च समासदत् ।यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च ॥ ९ ॥
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् ।सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ॥ १० ॥
ततः संप्रेषयामास दशार्णाधिपतेर्नृप ।पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ॥ ११ ॥
अथ दाशार्णको राजा सहसाभ्यागमत्तदा ।पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः ॥ १२ ॥
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा ।प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् ॥ १३ ॥
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ।यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते ।फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥ १४ ॥
एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम ।दूतः प्रयातो नगरं दाशार्णनृपचोदितः ॥ १५ ॥
तत आसादयामास पुरोधा द्रुपदं पुरे ।तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ।प्रापयामास राजेन्द्र सह तेन शिखण्डिना ॥ १६ ॥
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह ।यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ॥ १७ ॥
यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः ।तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ॥ १८ ॥
देहि युद्धं नरपते ममाद्य रणमूर्धनि ।उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् ॥ १९ ॥
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः ।दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा ॥ २० ॥
अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ।यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः ।तस्योत्तरं प्रतिवचो दूत एव वदिष्यति ॥ २१ ॥
ततः संप्रेषयामास द्रुपदोऽपि महात्मने ।हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ॥ २२ ॥
समागम्य तु राज्ञा स दशार्णपतिना तदा ।तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ॥ २३ ॥
आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम ।मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत ॥ २४ ॥
ततः स राजा द्रुपदस्य श्रुत्वा विमर्शयुक्तो युवतीर्वरिष्ठाः ।संप्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् ॥ २५ ॥
ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् ।शिखण्डिनं पुरुषं कौरवेन्द्र दशार्णराजाय महानुभावम् ॥ २६ ॥
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ ।संबन्धिना समागम्य हृष्टो वासमुवास ह ॥ २७ ॥
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः ।हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा ।पूजितश्च प्रतिययौ निवर्त्य तनयां किल ॥ २८ ॥
विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे ।प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी ॥ २९ ॥
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः ।लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम् ॥ ३० ॥
स तद्गृहस्योपरि वर्तमान आलोकयामास धनाधिगोप्ता ।स्थूणस्य यक्षस्य निशाम्य वेश्म स्वलंकृतं माल्यगुणैर्विचित्रम् ॥ ३१ ॥
लाजैश्च गन्धैश्च तथा वितानैरभ्यर्चितं धूपनधूपितं च ।ध्वजैः पताकाभिरलंकृतं च भक्ष्यान्नपेयामिषदत्तहोमम् ॥ ३२ ॥
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम् ।अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥ ३३ ॥
स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः ।नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः ॥ ३४ ॥
यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति ।तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥ ३५ ॥
यक्षा ऊचुः ।द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी ।तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ॥ ३६ ॥
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे ।नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान् ॥ ३७ ॥
एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति ।श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ॥ ३८ ॥
भीष्म उवाच ।आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् ।कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः ॥ ३९ ॥
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते ।स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः ॥ ४० ॥
तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन ।एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः ॥ ४१ ॥
ततोऽब्रवीद्यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान् ।शिखण्डिने लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥ ४२ ॥
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया ।तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा ॥ ४३ ॥
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल ।स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥ ४४ ॥
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः ।सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥ ४५ ॥
हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते ।स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ॥ ४६ ॥
इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः ।प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः ॥ ४७ ॥
स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा ।समये चागमत्तं वै शिखण्डी स क्षपाचरम् ॥ ४८ ॥
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति ।तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥ ४९ ॥
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् ।सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥ ५० ॥
यक्ष उवाच ।शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज ।गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ॥ ५१ ॥
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् ।गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ॥ ५२ ॥
भीष्म उवाच ।एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत ।प्रत्याजगाम नगरं हर्षेण महतान्वितः ॥ ५३ ॥
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः ।द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान् ॥ ५४ ॥
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना ।मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥ ५५ ॥
शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुंगव ।शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥ ५६ ॥
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः ।शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥ ५७ ॥
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् ।जडान्धबधिराकारा ये युक्ता द्रुपदे मया ॥ ५८ ॥
एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः ।संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः ॥ ५९ ॥
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता ।द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ॥ ६० ॥
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् ।मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥ ६१ ॥
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् ।स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि ॥ ६२ ॥
न मुञ्चेयमहं बाणानिति कौरवनन्दन ।न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥ ६३ ॥
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः ।ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥ ६४ ॥
यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत ।नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ॥ ६५ ॥
संजय उवाच ।एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा ।मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ॥ ६६ ॥
« »