Click on words to see what they mean.

भीष्म उवाच ।चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत् ।ततो लेख्यादिषु तथा शिल्पेषु च परं गता ।इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह ॥ १ ॥
तस्य माता महाराज राजानं वरवर्णिनी ।चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा ॥ २ ॥
ततस्तां पार्षतो दृष्ट्वा कन्यां संप्राप्तयौवनाम् ।स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया ॥ ३ ॥
द्रुपद उवाच ।कन्या ममेयं संप्राप्ता यौवनं शोकवर्धिनी ।मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः ॥ ४ ॥
न तन्मिथ्या महाराज्ञि भविष्यति कथंचन ।त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति ॥ ५ ॥
भार्योवाच ।यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः ।श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज ॥ ६ ॥
क्रियतामस्य नृपते विधिवद्दारसंग्रहः ।सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः ॥ ७ ॥
भीष्म उवाच ।ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती ।वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम् ॥ ८ ॥
ततो राजा द्रुपदो राजसिंहः सर्वान्राज्ञः कुलतः संनिशाम्य ।दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान् ॥ ९ ॥
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः ।स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने ॥ १० ॥
स च राजा दशार्णेषु महानासीन्महीपतिः ।हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः ॥ ११ ॥
कृते विवाहे तु तदा सा कन्या राजसत्तम ।यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥ १२ ॥
कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत् ।न च सा वेद तां कन्यां कंचित्कालं स्त्रियं किल ॥ १३ ॥
हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् ।धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत् ।कन्यां पाञ्चालराजस्य सुतां तां वै शिखण्डिनीम् ॥ १४ ॥
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा ।जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च ॥ १५ ॥
ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् ।विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः ॥ १६ ॥
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा ।विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् ॥ १७ ॥
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ ।हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह ॥ १८ ॥
ततो दाशार्णको राजा तीव्रकोपसमन्वितः ।दूतं प्रस्थापयामास द्रुपदस्य निवेशने ॥ १९ ॥
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः ।एक एकान्तमुत्सार्य रहो वचनमब्रवीत् ॥ २० ॥
दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् ।अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ ॥ २१ ॥
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव ।यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि ॥ २२ ॥
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते ।एष त्वां सजनामात्यमुद्धरामि स्थिरो भव ॥ २३ ॥
« »