Click on words to see what they mean.

भीष्म उवाच ।एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप ।चोरस्येव गृहीतस्य न प्रावर्तत भारती ॥ १ ॥
स यत्नमकरोत्तीव्रं संबन्धैरनुसान्त्वनैः ।दूतैर्मधुरसंभाषैर्नैतदस्तीति संदिशन् ॥ २ ॥
स राजा भूय एवाथ कृत्वा तत्त्वत आगमम् ।कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ ॥ ३ ॥
ततः संप्रेषयामास मित्राणाममितौजसाम् ।दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा ॥ ४ ॥
ततः समुदयं कृत्वा बलानां राजसत्तमः ।अभियाने मतिं चक्रे द्रुपदं प्रति भारत ॥ ५ ॥
ततः संमन्त्रयामास मित्रैः सह महीपतिः ।हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति ॥ ६ ॥
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् ।तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी ।बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान् ॥ ७ ॥
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् ।घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम् ॥ ८ ॥
स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः ।प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव ॥ ९ ॥
स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः ।भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः ॥ १० ॥
विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः ।समेत्य भार्यां रहिते वाक्यमाह नराधिपः ॥ ११ ॥
भयेन महताविष्टो हृदि शोकेन चाहतः ।पाञ्चालराजो दयितां मातरं वै शिखण्डिनः ॥ १२ ॥
अभियास्यति मां कोपात्संबन्धी सुमहाबलः ।हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् ॥ १३ ॥
किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति ।शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः ॥ १४ ॥
इति निश्चित्य तत्त्वेन समित्रः सबलानुगः ।वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति ॥ १५ ॥
किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने ।श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा ॥ १६ ॥
अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी ।त्वं च राज्ञि महत्कृच्छ्रं संप्राप्ता वरवर्णिनि ॥ १७ ॥
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः ।तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते ।शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः ॥ १८ ॥
क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः ।मया दाशार्णको राजा वञ्चितश्च महीपतिः ।तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् ॥ १९ ॥
जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै ।प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम् ॥ २० ॥
« »