Click on words to see what they mean.

वैशंपायन उवाच ।युयुधानस्ततो वीरः सात्वतानां महारथः ।महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥ १ ॥
तस्य योधा महावीर्या नानादेशसमागताः ।नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ॥ २ ॥
परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः ।शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ॥ ३ ॥
खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि ।तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥ ४ ॥
तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च ।बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥ ५ ॥
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम् ।प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥ ६ ॥
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥ ७ ॥
मागधश्च जयत्सेनो जारासंधिर्महाबलः ।अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥ ८ ॥
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः ।वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत् ॥ ९ ॥
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे ।प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥ १० ॥
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः ।शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥ ११ ॥
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥ १२ ॥
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।अक्षौहिण्यस्तु सप्तैव विविधध्वजसंकुलाः ।युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ॥ १३ ॥
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन् ।भगदत्तो महीपालः सेनामक्षौहिणीं ददौ ॥ १४ ॥
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ।बभौ बलमनाधृष्यं कर्णिकारवनं यथा ॥ १५ ॥
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ।दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ॥ १६ ॥
कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह ।अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ॥ १७ ॥
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ।अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ॥ १८ ॥
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ।आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान् ॥ १९ ॥
तेषामक्षौहिणी सेना बहुला विबभौ तदा ।विधूयमाना वातेन बहुरूपा इवाम्बुदाः ॥ २० ॥
सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा ।उपाजगाम कौरव्यमक्षौहिण्या विशां पते ॥ २१ ॥
तस्य सेनासमावायः शलभानामिवाबभौ ।स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ॥ २२ ॥
तथा माहिष्मतीवासी नीलो नीलायुधैः सह ।महीपालो महावीर्यैर्दक्षिणापथवासिभिः ॥ २३ ॥
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ।पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ॥ २४ ॥
केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः ।संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ॥ २५ ॥
इतश्चेतश्च सर्वेषां भूमिपानां महात्मनाम् ।तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ॥ २६ ॥
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ।युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ॥ २७ ॥
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ।राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ॥ २८ ॥
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ।तथा रोहितकारण्यं मरुभूमिश्च केवला ॥ २९ ॥
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ।वारणा वाटधानं च यामुनश्चैव पर्वतः ॥ ३० ॥
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ।बभूव कौरवेयाणां बलेन सुसमाकुलः ॥ ३१ ॥
तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः ।यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥ ३२ ॥
« »