Click on words to see what they mean.

शल्य उवाच ।ततः शक्रः स्तूयमानो गन्धर्वाप्सरसां गणैः ।ऐरावतं समारुह्य द्विपेन्द्रं लक्षणैर्युतम् ॥ १ ॥
पावकश्च महातेजा महर्षिश्च बृहस्पतिः ।यमश्च वरुणश्चैव कुबेरश्च धनेश्वरः ॥ २ ॥
सर्वैर्देवैः परिवृतः शक्रो वृत्रनिषूदनः ।गन्धर्वैरप्सरोभिश्च यातस्त्रिभुवनं प्रभुः ॥ ३ ॥
स समेत्य महेन्द्राण्या देवराजः शतक्रतुः ।मुदा परमया युक्तः पालयामास देवराट् ॥ ४ ॥
ततः स भगवांस्तत्र अङ्गिराः समदृश्यत ।अथर्ववेदमन्त्रैश्च देवेन्द्रं समपूजयत् ॥ ५ ॥
ततस्तु भगवानिन्द्रः प्रहृष्टः समपद्यत ।वरं च प्रददौ तस्मै अथर्वाङ्गिरसे तदा ॥ ६ ॥
अथर्वाङ्गिरसं नाम अस्मिन्वेदे भविष्यति ।उदाहरणमेतद्धि यज्ञभागं च लप्स्यसे ॥ ७ ॥
एवं संपूज्य भगवानथर्वाङ्गिरसं तदा ।व्यसर्जयन्महाराज देवराजः शतक्रतुः ॥ ८ ॥
संपूज्य सर्वांस्त्रिदशानृषींश्चापि तपोधनान् ।इन्द्रः प्रमुदितो राजन्धर्मेणापालयत्प्रजाः ॥ ९ ॥
एवं दुःखमनुप्राप्तमिन्द्रेण सह भार्यया ।अज्ञातवासश्च कृतः शत्रूणां वधकाङ्क्षया ॥ १० ॥
नात्र मन्युस्त्वया कार्यो यत्क्लिष्टोऽसि महावने ।द्रौपद्या सह राजेन्द्र भ्रातृभिश्च महात्मभिः ॥ ११ ॥
एवं त्वमपि राजेन्द्र राज्यं प्राप्स्यसि भारत ।वृत्रं हत्वा यथा प्राप्तः शक्रः कौरवनन्दन ॥ १२ ॥
दुराचारश्च नहुषो ब्रह्मद्विट्पापचेतनः ।अगस्त्यशापाभिहतो विनष्टः शाश्वतीः समाः ॥ १३ ॥
एवं तव दुरात्मानः शत्रवः शत्रुसूदन ।क्षिप्रं नाशं गमिष्यन्ति कर्णदुर्योधनादयः ॥ १४ ॥
ततः सागरपर्यन्तां भोक्ष्यसे मेदिनीमिमाम् ।भ्रातृभिः सहितो वीर द्रौपद्या च सहाभिभो ॥ १५ ॥
उपाख्यानमिदं शक्रविजयं वेदसंमितम् ।राज्ञा व्यूढेष्वनीकेषु श्रोतव्यं जयमिच्छता ॥ १६ ॥
तस्मात्संश्रावयामि त्वां विजयं जयतां वर ।संस्तूयमाना वर्धन्ते महात्मानो युधिष्ठिर ॥ १७ ॥
क्षत्रियाणामभावोऽयं युधिष्ठिर महात्मनाम् ।दुर्योधनापराधेन भीमार्जुनबलेन च ॥ १८ ॥
आख्यानमिन्द्रविजयं य इदं नियतः पठेत् ।धूतपाप्मा जितस्वर्गः स प्रेत्येह च मोदते ॥ १९ ॥
न चारिजं भयं तस्य न चापुत्रो भवेन्नरः ।नापदं प्राप्नुयात्कांचिद्दीर्घमायुश्च विन्दति ।सर्वत्र जयमाप्नोति न कदाचित्पराजयम् ॥ २० ॥
वैशंपायन उवाच ।एवमाश्वासितो राजा शल्येन भरतर्षभ ।पूजयामास विधिवच्छल्यं धर्मभृतां वरः ॥ २१ ॥
श्रुत्वा शल्यस्य वचनं कुन्तीपुत्रो युधिष्ठिरः ।प्रत्युवाच महाबाहुर्मद्रराजमिदं वचः ॥ २२ ॥
भवान्कर्णस्य सारथ्यं करिष्यति न संशयः ।तत्र तेजोवधः कार्यः कर्णस्य मम संस्तवैः ॥ २३ ॥
शल्य उवाच ।एवमेतत्करिष्यामि यथा मां संप्रभाषसे ।यच्चान्यदपि शक्ष्यामि तत्करिष्याम्यहं तव ॥ २४ ॥
वैशंपायन उवाच ।तत आमन्त्र्य कौन्तेयाञ्शल्यो मद्राधिपस्तदा ।जगाम सबलः श्रीमान्दुर्योधनमरिंदमः ॥ २५ ॥
« »