Click on words to see what they mean.

भीष्म उवाच ।ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा ।मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान् ।समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप ॥ १ ॥
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् ।वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ।अतीत्य च तमध्वानमाससाद नराधिपम् ॥ २ ॥
सा तमासाद्य राजानं शाल्वं वचनमब्रवीत् ।आगताहं महाबाहो त्वामुद्दिश्य महाद्युते ॥ ३ ॥
तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते ।त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥ ४ ॥
गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै ।नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥ ५ ॥
त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा ।परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ।नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ॥ ६ ॥
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ।नारीं विदितविज्ञानः परेषां धर्ममादिशन् ।यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् ॥ ७ ॥
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता ।मैवं वद महीपाल नैतदेवं कथंचन ॥ ८ ॥
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन ।बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ॥ ९ ॥
भजस्व मां शाल्वपते भक्तां बालामनागसम् ।भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ॥ १० ॥
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् ।अनुज्ञाता च तेनैव तवैव गृहमागता ॥ ११ ॥
न स भीष्मो महाबाहुर्मामिच्छति विशां पते ।भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ॥ १२ ॥
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप ।प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ॥ १३ ॥
यथा शाल्वपते नान्यं नरं ध्यामि कथंचन ।त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥ १४ ॥
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता ।सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे ॥ १५ ॥
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम् ।अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ॥ १६ ॥
तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम् ।अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः ॥ १७ ॥
एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ ।नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ ॥ १८ ॥
ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता ।अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा ॥ १९ ॥
त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते ।तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् ॥ २० ॥
एवं संभाषमाणां तु नृशंसः शाल्वराट्तदा ।पर्यत्यजत कौरव्य करुणं परिदेवतीम् ॥ २१ ॥
गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत ।बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ॥ २२ ॥
एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना ।निश्चक्राम पुराद्दीना रुदती कुररी यथा ॥ २३ ॥
« »