Click on words to see what they mean.

भीष्म उवाच ।सा निष्क्रमन्ती नगराच्चिन्तयामास भारत ।पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ।बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता ॥ १ ॥
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ।अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् ॥ २ ॥
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ।आहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ॥ ३ ॥
ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा ।प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा ।तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् ॥ ४ ॥
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् ।येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता ॥ ५ ॥
धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि च ।येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ॥ ६ ॥
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः ।अनयस्यास्य तु मुखं भीष्मः शांतनवो मम ॥ ७ ॥
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् ।तपसा वा युधा वापि दुःखहेतुः स मे मतः ।को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ॥ ८ ॥
एवं सा परिनिश्चित्य जगाम नगराद्बहिः ।आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।ततस्तामवसद्रात्रिं तापसैः परिवारिता ॥ ९ ॥
आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत ।विस्तरेण महाबाहो निखिलेन शुचिस्मिता ।हरणं च विसर्गं च शाल्वेन च विसर्जनम् ॥ १० ॥
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः ।शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ॥ ११ ॥
आर्तां तामाह स मुनिः शैखावत्यो महातपाः ।निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥ १२ ॥
एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः ।आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः ॥ १३ ॥
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः ।प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम् ॥ १४ ॥
मयैवैतानि कर्माणि पूर्वदेहेषु मूढया ।कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ॥ १५ ॥
नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः ।प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता ॥ १६ ॥
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः ।युष्माभिर्देवसंकाशाः कृपा भवतु वो मयि ॥ १७ ॥
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः ।सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥ १८ ॥
« »