Click on words to see what they mean.

भीष्म उवाच ।समुद्यतोऽयं भारो मे सुमहान्सागरोपमः ।धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः ॥ १ ॥
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे ।मिथोभेदो न मे कार्यस्तेन जीवसि सूतज ॥ २ ॥
न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव ।युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ॥ ३ ॥
जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता ।न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि ॥ ४ ॥
कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम् ।वक्ष्यामि तु त्वां संतप्तो निहीन कुलपांसन ॥ ५ ॥
समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे ।निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः ॥ ६ ॥
ईदृशानां सहस्राणि विशिष्टानामथो पुनः ।मयैकेन निरस्तानि ससैन्यानि रणाजिरे ॥ ७ ॥
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् ।उपस्थितो विनाशाय यतस्व पुरुषो भव ॥ ८ ॥
युध्यस्व पार्थं समरे येन विस्पर्धसे सह ।द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ॥ ९ ॥
संजय उवाच ।तमुवाच ततो राजा धार्तराष्ट्रो महामनाः ।मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ॥ १० ॥
चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम् ।उभावपि भवन्तौ मे महत्कर्म करिष्यतः ॥ ११ ॥
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् ।ये चैवातिरथास्तत्र तथैव रथयूथपाः ॥ १२ ॥
बलाबलममित्राणां श्रोतुमिच्छामि कौरव ।प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ॥ १३ ॥
भीष्म उवाच ।एते रथास्ते संख्यातास्तथैवातिरथा नृप ।ये चाप्यर्धरथा राजन्पाण्डवानामतः शृणु ॥ १४ ॥
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप ।रथसंख्यां महाबाहो सहैभिर्वसुधाधिपैः ॥ १५ ॥
स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः ।अग्निवत्समरे तात चरिष्यति न संशयः ॥ १६ ॥
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः ।नागायुतबलो मानी तेजसा न स मानुषः ॥ १७ ॥
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ ।अश्विनाविव रूपेण तेजसा च समन्वितौ ॥ १८ ॥
एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः ।रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ॥ १९ ॥
सर्व एव महात्मानः शालस्कन्धा इवोद्गताः ।प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः ॥ २० ॥
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः ।चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः ॥ २१ ॥
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः ।जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ।सर्वे जितमहीपाला दिग्जये भरतर्षभ ॥ २२ ॥
न चैषां पुरुषाः केचिदायुधानि गदाः शरान् ।विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ।उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् ॥ २३ ॥
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे ।बालैरपि भवन्तस्तैः सर्व एव विशेषिताः ॥ २४ ॥
ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः ।विध्वंसयिष्यन्ति रणे मा स्म तैः सह संगमः ॥ २५ ॥
एकैकशस्ते संग्रामे हन्युः सर्वान्महीक्षितः ।प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ॥ २६ ॥
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः ।ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत् ॥ २७ ॥
लोहिताक्षो गुडाकेशो नारायणसहायवान् ।उभयोः सेनयोर्वीर रथो नास्तीह तादृशः ॥ २८ ॥
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा ।राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ॥ २९ ॥
भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः ।समायुक्तो महाराज यथा पार्थस्य धीमतः ॥ ३० ॥
वासुदेवश्च संयन्ता योद्धा चैव धनंजयः ।गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ॥ ३१ ॥
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी ।अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च ॥ ३२ ॥
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः ।वज्रादीनि च मुख्यानि नानाप्रहरणानि वै ॥ ३३ ॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ॥ ३४ ॥
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः ।तव सेनां महाबाहुः स्वां चैव परिपालयन् ॥ ३५ ॥
अहं चैनं प्रत्युदियामाचार्यो वा धनंजयम् ।न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ।य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ॥ ३६ ॥
जीमूत इव घर्मान्ते महावातसमीरितः ।समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ।तरुणश्च कृती चैव जीर्णावावामुभावपि ॥ ३७ ॥
संजय उवाच ।एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा ।काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ॥ ३८ ॥
मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् ।सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् ॥ ३९ ॥
« »