Click on words to see what they mean.

जनमेजय उवाच ।तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ ।किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः ॥ १ ॥
वैशंपायन उवाच ।तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ ।धृतराष्ट्रो महाराज संजयं वाक्यमब्रवीत् ॥ २ ॥
एहि संजय मे सर्वमाचक्ष्वानवशेषतः ।सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ॥ ३ ॥
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् ॥ ४ ॥
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् ।न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ॥ ५ ॥
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।दुर्योधनं समासाद्य पुनः सा परिवर्तते ॥ ६ ॥
एवं गते वै यद्भावि तद्भविष्यति संजय ।क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः ॥ ७ ॥
संजय उवाच ।त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि ।न तु दुर्योधने दोषमिममासक्तुमर्हसि ।शृणुष्वानवशेषेण वदतो मम पार्थिव ॥ ८ ॥
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।एनसा न स दैवं वा कालं वा गन्तुमर्हति ॥ ९ ॥
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् ।स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ॥ १० ॥
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया ।अनुभूताः सहामात्यैर्निकृतैरधिदेवने ॥ ११ ॥
हयानां च गजानां च राज्ञां चामिततेजसाम् ।वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ॥ १२ ॥
स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् ।यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ॥ १३ ॥
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ॥ १४ ॥
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया ।पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते ॥ १५ ॥
« »