Click on words to see what they mean.

शल्य उवाच ।एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत् ।विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥ १ ॥
विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि ।नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥ २ ॥
गुह्यं चैतत्त्वया कार्यं नाख्यातव्यं शुभे क्वचित् ।गत्वा नहुषमेकान्ते ब्रवीहि तनुमध्यमे ॥ ३ ॥
ऋषियानेन दिव्येन मामुपैहि जगत्पते ।एवं तव वशे प्रीता भविष्यामीति तं वद ॥ ४ ॥
इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा ।एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥ ५ ॥
नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत् ।स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥ ६ ॥
भक्तं मां भज कल्याणि किमिच्छसि मनस्विनि ।तव कल्याणि यत्कार्यं तत्करिष्ये सुमध्यमे ॥ ७ ॥
न च व्रीडा त्वया कार्या सुश्रोणि मयि विश्वस ।सत्येन वै शपे देवि कर्तास्मि वचनं तव ॥ ८ ॥
इन्द्राण्युवाच ।यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते ।ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप ॥ ९ ॥
कार्यं च हृदि मे यत्तद्देवराजावधारय ।वक्ष्यामि यदि मे राजन्प्रियमेतत्करिष्यसि ।वाक्यं प्रणयसंयुक्तं ततः स्यां वशगा तव ॥ १० ॥
इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ।इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप ।यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ॥ ११ ॥
वहन्तु त्वां महाराज ऋषयः संगता विभो ।सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥ १२ ॥
नासुरेषु न देवेषु तुल्यो भवितुमर्हसि ।सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् ।न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् ॥ १३ ॥
शल्य उवाच ।एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल ।उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥ १४ ॥
अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि ।दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने ॥ १५ ॥
न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ॥ १६ ॥
मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् ।देवदानवगन्धर्वाः किंनरोरगराक्षसाः ॥ १७ ॥
न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते ।चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥ १८ ॥
तस्मात्ते वचनं देवि करिष्यामि न संशयः ।सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ।पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि ॥ १९ ॥
एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् ।विमाने योजयित्वा स ऋषीन्नियममास्थितान् ॥ २० ॥
अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च ।कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥ २१ ॥
नहुषेण विसृष्टा च बृहस्पतिमुवाच सा ।समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ।शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् ॥ २२ ॥
बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् ।न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ॥ २३ ॥
न ह्येष स्थास्यति चिरं गत एष नराधमः ।अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ॥ २४ ॥
इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ।शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते ॥ २५ ॥
ततः प्रज्वाल्य विधिवज्जुहाव परमं हविः ।बृहस्पतिर्महातेजा देवराजोपलब्धये ॥ २६ ॥
तस्माच्च भगवान्देवः स्वयमेव हुताशनः ।स्त्रीवेषमद्भुतं कृत्वा सहसान्तरधीयत ॥ २७ ॥
स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च ।पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः ।निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ॥ २८ ॥
अग्निरुवाच ।बृहस्पते न पश्यामि देवराजमहं क्वचित् ।आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ।न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते ॥ २९ ॥
शल्य उवाच ।तमब्रवीद्देवगुरुरपो विश महाद्युते ॥ ३० ॥
अग्निरुवाच ।नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति ।शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते ॥ ३१ ॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ३२ ॥
« »