Click on words to see what they mean.

नारद उवाच ।एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥ १ ॥
यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।ययातिर्वत्सकाशीश इदं वचनमब्रवीत् ॥ २ ॥
दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥ ३ ॥
अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।मत्सकाशमनुप्राप्तावेतौ बुद्धिमवेक्ष्य च ॥ ४ ॥
अद्य मे सफलं जन्म तारितं चाद्य मे कुलम् ।अद्यायं तारितो देशो मम तार्क्ष्य त्वयानघ ॥ ५ ॥
वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।न तथा वित्तवानस्मि क्षीणं वित्तं हि मे सखे ॥ ६ ॥
न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग ।न चाशामस्य विप्रर्षेर्वितथां कर्तुमुत्सहे ॥ ७ ॥
तत्तु दास्यामि यत्कार्यमिदं संपादयिष्यति ।अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥ ८ ॥
नातः परं वैनतेय किंचित्पापिष्ठमुच्यते ।यथाशानाशनं लोके देहि नास्तीति वा वचः ॥ ९ ॥
हताशो ह्यकृतार्थः सन्हतः संभावितो नरः ।हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतोऽर्थिनाम् ॥ १० ॥
तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम ।इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी ॥ ११ ॥
सदा देवमनुष्याणामसुराणां च गालव ।काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥ १२ ॥
अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रुवम् ।किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥ १३ ॥
स भवान्प्रतिगृह्णातु ममेमां माधवीं सुताम् ।अहं दौहित्रवान्स्यां वै वर एष मम प्रभो ॥ १४ ॥
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा ।पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥ १५ ॥
उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥ १६ ॥
गते पतगराजे तु गालवः सह कन्यया ।चिन्तयानः क्षमं दाने राज्ञां वै शुल्कतोऽगमत् ॥ १७ ॥
सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥ १८ ॥
कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥ १९ ॥
तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥ २० ॥
इयं शुल्केन भार्यार्थे हर्यश्व प्रतिगृह्यताम् ।शुल्कं ते कीर्तयिष्यामि तच्छ्रुत्वा संप्रधार्यताम् ॥ २१ ॥
« »