Click on words to see what they mean.

वैशंपायन उवाच ।तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत् ।सुकुमारं समाज्ञातं संग्रामे नातिकोविदम् ॥ १ ॥
समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर ।नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम् ॥ २ ॥
भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् ।मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः ॥ ३ ॥
तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम् ।अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत ॥ ४ ॥
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ।ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च ॥ ५ ॥
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् ।एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ॥ ६ ॥
व्यायामसहमत्यर्थं तृणराजसमं महत् ।सर्वायुधमहामात्रं शत्रुसंबाधकारकम् ॥ ७ ॥
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् ।अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् ।तादृशान्येव सर्वाणि बलवन्ति दृढानि च ॥ ८ ॥
उत्तर उवाच ।अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् ।तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम् ॥ ९ ॥
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना ।महता राजपुत्रेण मन्त्रयज्ञविदा सता ॥ १० ॥
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् ।कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे ॥ ११ ॥
बृहन्नडोवाच ।व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि ।धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते ॥ १२ ॥
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् ।कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज ॥ १३ ॥
वैशंपायन उवाच ।एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली ।आरुरोह शमीवृक्षं वैराटिरवशस्तदा ॥ १४ ॥
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः ।परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद ॥ १५ ॥
तथा संनहनान्येषां परिमुच्य समन्ततः ।अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह ॥ १६ ॥
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् ।विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव ॥ १७ ॥
स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् ।हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत ॥ १८ ॥
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च ।वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ॥ १९ ॥
उत्तर उवाच ।बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः ।सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम् ॥ २० ॥
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः ।सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम् ॥ २१ ॥
तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः ।पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम् ॥ २२ ॥
सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः ।तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम् ॥ २३ ॥
शालभा यत्र सौवर्णास्तपनीयविचित्रिताः ।सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम् ॥ २४ ॥
इमे च कस्य नाराचाः सहस्रा लोमवाहिनः ।समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये ॥ २५ ॥
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः ।हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः ॥ २६ ॥
कस्यायमसितावापः पञ्चशार्दूललक्षणः ।वराहकर्णव्यामिश्रः शरान्धारयते दश ॥ २७ ॥
कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः ।शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः ॥ २८ ॥
कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः ।उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः ॥ २९ ॥
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः ।वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान् ॥ ३० ॥
सुफलश्चित्रकोशश्च किङ्किणीसायको महान् ।कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः ॥ ३१ ॥
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः ।हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥ ३२ ॥
कस्य पाञ्चनखे कोशे सायको हेमविग्रहः ।प्रमाणरूपसंपन्नः पीत आकाशसंनिभः ॥ ३३ ॥
कस्य हेममये कोशे सुतप्ते पावकप्रभे ।निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः ॥ ३४ ॥
निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे ।विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ ३५ ॥
बृहन्नडोवाच ।यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् ।गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः ॥ ३६ ॥
सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् ।एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम् ॥ ३७ ॥
यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् ।येन देवान्मनुष्यांश्च पार्थो विषहते मृधे ॥ ३८ ॥
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् ॥ ३९ ॥
ततोऽनन्तरमेवाथ प्रजापतिरधारयत् ।त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च ॥ ४० ॥
सोमः पञ्चशतं राजा तथैव वरुणः शतम् ।पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः ॥ ४१ ॥
महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् ।पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः ॥ ४२ ॥
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः ।येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः ॥ ४३ ॥
इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् ।राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम् ॥ ४४ ॥
सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः ।तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम् ॥ ४५ ॥
शलभा यत्र सौवर्णास्तपनीयविचित्रिताः ।एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम् ॥ ४६ ॥
ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः ।एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः ॥ ४७ ॥
एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः ।भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून् ॥ ४८ ॥
ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः ।एते भीमस्य निशिता रिपुक्षयकराः शराः ॥ ४९ ॥
हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः ।नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः ॥ ५० ॥
येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे ।कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः ॥ ५१ ॥
ये त्विमे भास्कराकाराः सर्वपारशवाः शराः ।एते चित्राः क्रियोपेताः सहदेवस्य धीमतः ॥ ५२ ॥
ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः ।हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः ॥ ५३ ॥
यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः ।अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः ॥ ५४ ॥
वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः ।गुरुभारसहो दिव्यः शात्रवाणां भयंकरः ॥ ५५ ॥
सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः ।निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः ॥ ५६ ॥
यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने ।नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः ॥ ५७ ॥
यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः ।सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम् ॥ ५८ ॥
« »