Click on words to see what they mean.

उत्तर उवाच ।सुवर्णविकृतानीमान्यायुधानि महात्मनाम् ।रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम् ॥ १ ॥
क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः ।नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ॥ २ ॥
सर्व एव महात्मानः सर्वामित्रविनाशनाः ।राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन ॥ ३ ॥
द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता ।जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम् ॥ ४ ॥
अर्जुन उवाच ।अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः ।बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः ॥ ५ ॥
अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले ।सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः ॥ ६ ॥
उत्तर उवाच ।दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे ।प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते ॥ ७ ॥
अर्जुन उवाच ।हन्त तेऽहं समाचक्षे दश नामानि यानि मे ।अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः ।बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः ॥ ८ ॥
उत्तर उवाच ।केनासि विजयो नाम केनासि श्वेतवाहनः ।किरीटी नाम केनासि सव्यसाची कथं भवान् ॥ ९ ॥
अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च ।धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः ।श्रुता मे तस्य वीरस्य केवला नामहेतवः ॥ १० ॥
अर्जुन उवाच ।सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम् ।मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम् ॥ ११ ॥
अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान् ।नाजित्वा विनिवर्तामि तेन मां विजयं विदुः ॥ १२ ॥
श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः ।संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः ॥ १३ ॥
उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा ।जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः ॥ १४ ॥
पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः ।किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम् ॥ १५ ॥
न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन ।तेन देवमनुष्येषु बीभत्सुरिति मां विदुः ॥ १६ ॥
उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे ।तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥ १७ ॥
पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः ।करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः ॥ १८ ॥
अहं दुरापो दुर्धर्षो दमनः पाकशासनिः ।तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः ॥ १९ ॥
कृष्ण इत्येव दशमं नाम चक्रे पिता मम ।कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै ॥ २० ॥
वैशंपायन उवाच ।ततः पार्थं स वैराटिरभ्यवादयदन्तिकात् ।अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः ॥ २१ ॥
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय ।लोहिताक्ष महाबाहो नागराजकरोपम ।यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम ॥ २२ ॥
यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम् ।अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि ॥ २३ ॥
« »