Click on words to see what they mean.

वैशंपायन उवाच ।स राजधान्या निर्याय वैराटिः पृथिवींजयः ।प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ॥ १ ॥
समवेतान्कुरून्यावज्जिगीषूनवजित्य वै ।गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम् ॥ २ ॥
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ।ते हया नरसिंहेन चोदिता वातरंहसः ।आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ॥ ३ ॥
नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ ।अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम् ।श्मशानमभितो गत्वा आससाद कुरूनथ ॥ ४ ॥
तदनीकं महत्तेषां विबभौ सागरस्वनम् ।सर्पमाणमिवाकाशे वनं बहुलपादपम् ॥ ५ ॥
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता ।दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम ॥ ६ ॥
तदनीकं महद्दृष्ट्वा गजाश्वरथसंकुलम् ।कर्णदुर्योधनकृपैर्गुप्तं शांतनवेन च ॥ ७ ॥
द्रोणेन च सपुत्रेण महेष्वासेन धीमता ।हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत् ॥ ८ ॥
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे ।बहुप्रवीरमत्युग्रं देवैरपि दुरासदम् ।प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम् ॥ ९ ॥
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम् ।रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ।दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे ॥ १० ॥
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः ।अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥ ११ ॥
दुर्योधनस्तथा वीरो राजा च रथिनां वरः ।द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ॥ १२ ॥
दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः ।हृषितानि च रोमाणि कश्मलं चागतं मम ॥ १३ ॥
वैशंपायन उवाच ।अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः ।परिदेवयते मन्दः सकाशे सव्यसाचिनः ॥ १४ ॥
त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम् ।सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ॥ १५ ॥
सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः ।प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे ॥ १६ ॥
अर्जुन उवाच ।भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः ।न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ॥ १७ ॥
स्वयमेव च मामात्थ वह मां कौरवान्प्रति ।सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ॥ १८ ॥
मध्यमामिषगृध्राणां कुरूणामाततायिनाम् ।नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम् ॥ १९ ॥
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च ।कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे ॥ २० ॥
न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि ।प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च संगताः ॥ २१ ॥
अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि ।न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ॥ २२ ॥
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च ।कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव ॥ २३ ॥
उत्तर उवाच ।कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम् ।प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे ॥ २४ ॥
वैशंपायन उवाच ।इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली ।त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः ॥ २५ ॥
बृहन्नडोवाच ।नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम् ।श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम् ॥ २६ ॥
वैशंपायन उवाच ।एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात् ।तमन्वधावद्धावन्तं राजपुत्रं धनंजयः ।दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी ॥ २७ ॥
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा ।सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम् ॥ २८ ॥
तं शीघ्रमभिधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् ।क एष वेषप्रच्छन्नो भस्मनेव हुताशनः ॥ २९ ॥
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ।सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च ॥ ३० ॥
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ ।तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात् ॥ ३१ ॥
अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः ।एकः कोऽस्मानुपायायादन्यो लोके धनंजयात् ॥ ३२ ॥
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ।स एष किल निर्यातो बालभावान्न पौरुषात् ॥ ३३ ॥
सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम् ।उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः ॥ ३४ ॥
स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति ।तं नूनमेष धावन्तं जिघृक्षति धनंजयः ॥ ३५ ॥
इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक् ।न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते ।छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत ॥ ३६ ॥
उत्तरं तु प्रधावन्तमनुद्रुत्य धनंजयः ।गत्वा पदशतं तूर्णं केशपक्षे परामृशत् ॥ ३७ ॥
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।बहुलं कृपणं चैव विराटस्य सुतस्तदा ॥ ३८ ॥
शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते ।मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान् ॥ ३९ ॥
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः ।मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे ॥ ४० ॥
वैशंपायन उवाच ।एवमादीनि वाक्यानि विलपन्तमचेतसम् ।प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत् ॥ ४१ ॥
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ।यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन ।एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ॥ ४२ ॥
प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः ।अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः ॥ ४३ ॥
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप ।अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून् ॥ ४४ ॥
प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम् ।यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह ॥ ४५ ॥
एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः ।समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ ॥ ४६ ॥
तत एनं विचेष्टन्तमकामं भयपीडितम् ।रथमारोपयामास पार्थः प्रहरतां वरः ॥ ४७ ॥
« »