Click on words to see what they mean.

वैशंपायन उवाच ।स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा ।प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत ॥ १ ॥
तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम् ।प्रणयं भावयन्ती स्म सखीमध्य इदं वचः ॥ २ ॥
गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे ।तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः ॥ ३ ॥
नचिरं च हतस्तस्य संग्रामे रथसारथिः ।तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत् ॥ ४ ॥
तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे ।आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव ॥ ५ ॥
सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे ।पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः ॥ ६ ॥
अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि ।प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम् ॥ ७ ॥
एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः ।जगाम राजपुत्रस्य सकाशममितौजसः ॥ ८ ॥
तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम् ।अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव ॥ ९ ॥
दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत ।त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ॥ १० ॥
पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः ।सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान् ॥ ११ ॥
संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे ।कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः ॥ १२ ॥
अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा ।त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः ॥ १३ ॥
एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा ।का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि ॥ १४ ॥
गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम् ।तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि ॥ १५ ॥
उत्तर उवाच ।बृहन्नडे गायनो वा नर्तनो वा पुनर्भव ।क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान् ॥ १६ ॥
वैशंपायन उवाच ।स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु ।उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम ॥ १७ ॥
ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत ।कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः ॥ १८ ॥
स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः ।कवचेन महार्हेण समनह्यद्बृहन्नडाम् ॥ १९ ॥
स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम् ।ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत् ॥ २० ॥
धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून् ।आदाय प्रययौ वीरः स बृहन्नडसारथिः ॥ २१ ॥
अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा ।बृहन्नडे आनयेथा वासांसि रुचिराणि नः ॥ २२ ॥
पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च ।विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ॥ २३ ॥
अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः ।प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः ॥ २४ ॥
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् ।अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च ॥ २५ ॥
एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान् ।कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः ॥ २६ ॥
« »