Click on words to see what they mean.

वैशंपायन उवाच ।निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः ।त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति ॥ १ ॥
ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः ।अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः ॥ २ ॥
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः ।ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ॥ ३ ॥
तेषां समागमो घोरस्तुमुलो लोमहर्षणः ।देवासुरसमो राजन्नासीत्सूर्ये विलम्बति ॥ ४ ॥
उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन ।पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः ॥ ५ ॥
इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत ।खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत ॥ ६ ॥
रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम् ।पततां लोकवीराणां सव्यदक्षिणमस्यताम् ॥ ७ ॥
रथा रथैः समाजग्मुः पादातैश्च पदातयः ।सादिभिः सादिनश्चैव गजैश्चापि महागजाः ॥ ८ ॥
असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि ।संरब्धाः समरे राजन्निजघ्नुरितरेतरम् ॥ ९ ॥
निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः ।न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् ॥ १० ॥
कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलंकृतम् ।अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम् ॥ ११ ॥
अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः ।शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ॥ १२ ॥
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः ।आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ १३ ॥
उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता ।कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत ॥ १४ ॥
शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् ।प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ।आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि ॥ १५ ॥
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् ।जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः ॥ १६ ॥
विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान् ।हयानां च शतान्यत्र हत्वा पञ्च महारथान् ॥ १७ ॥
चरन्स विविधान्मार्गान्रथेषु रथयूथपः ।त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ॥ १८ ॥
तौ व्यावहरतां तत्र महात्मानौ महाबलौ ।अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव ॥ १९ ॥
ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः ।शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव ॥ २० ॥
अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ ।कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ ॥ २१ ॥
ततो राजा सुशर्माणं विव्याध दशभिः शरैः ।पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान् ॥ २२ ॥
तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः ।पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित् ॥ २३ ॥
ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः ।नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते ॥ २४ ॥
« »