Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तेषां महाराज तत्रैवामिततेजसाम् ।छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ॥ १ ॥
व्यतीतः समयः सम्यग्वसतां वै पुरोत्तमे ।कुर्वतां तस्य कर्माणि विराटस्य महीपतेः ॥ २ ॥
ततस्त्रयोदशस्यान्ते तस्य वर्षस्य भारत ।सुशर्मणा गृहीतं तु गोधनं तरसा बहु ॥ ३ ॥
ततो जवेन महता गोपाः पुरमथाव्रजत् ।अपश्यन्मत्स्यराजं च रथात्प्रस्कन्द्य कुण्डली ॥ ४ ॥
शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ।सद्भिश्च मन्त्रिभिः सार्धं पाण्डवैश्च नरर्षभैः ॥ ५ ॥
तं सभायां महाराजमासीनं राष्ट्रवर्धनम् ।सोऽब्रवीदुपसंगम्य विराटं प्रणतस्तदा ॥ ६ ॥
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान् ।गवां शतसहस्राणि त्रिगर्ताः कालयन्ति ते ।तान्परीप्स मनुष्येन्द्र मा नेशुः पशवस्तव ॥ ७ ॥
तच्छ्रुत्वा नृपतिः सेनां मत्स्यानां समयोजयत् ।रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ॥ ८ ॥
राजानो राजपुत्राश्च तनुत्राण्यत्र भेजिरे ।भानुमन्ति विचित्राणि सूपसेव्यानि भागशः ॥ ९ ॥
सवज्रायसगर्भं तु कवचं तप्तकाञ्चनम् ।विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ॥ १० ॥
सर्वपारसवं वर्म कल्याणपटलं दृढम् ।शतानीकादवरजो मदिराश्वोऽभ्यहारयत् ॥ ११ ॥
शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत् ।अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ॥ १२ ॥
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च ।सुवर्णपृष्ठं सूर्याभं सूर्यदत्तोऽभ्यहारयत् ॥ १३ ॥
दृढमायसगर्भं तु श्वेतं वर्म शताक्षिमत् ।विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ॥ १४ ॥
शतशश्च तनुत्राणि यथास्वानि महारथाः ।योत्स्यमानाभ्यनह्यन्त देवरूपाः प्रहारिणः ॥ १५ ॥
सूपस्करेषु शुभ्रेषु महत्सु च महारथाः ।पृथक्काञ्चनसंनाहान्रथेष्वश्वानयोजयन् ॥ १६ ॥
सूर्यचन्द्रप्रतीकाशो रथे दिव्ये हिरण्मयः ।महानुभावो मत्स्यस्य ध्वज उच्छिश्रिये तदा ॥ १७ ॥
अथान्यान्विविधाकारान्ध्वजान्हेमविभूषितान् ।यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ॥ १८ ॥
अथ मत्स्योऽब्रवीद्राजा शतानीकं जघन्यजम् ।कङ्कबल्लवगोपाला दामग्रन्थिश्च वीर्यवान् ।युध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ॥ १९ ॥
एतेषामपि दीयन्तां रथा ध्वजपताकिनः ।कवचानि विचित्राणि दृढानि च मृदूनि च ।प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च ॥ २० ॥
वीराङ्गरूपाः पुरुषा नागराजकरोपमाः ।नेमे जातु न युध्येरन्निति मे धीयते मतिः ॥ २१ ॥
एतच्छ्रुत्वा तु नृपतेर्वाक्यं त्वरितमानसः ।शतानीकस्तु पार्थेभ्यो रथान्राजन्समादिशत् ।सहदेवाय राज्ञे च भीमाय नकुलाय च ॥ २२ ॥
तान्प्रहृष्टास्ततः सूता राजभक्तिपुरस्कृताः ।निर्दिष्टान्नरदेवेन रथाञ्शीघ्रमयोजयन् ॥ २३ ॥
कवचानि विचित्राणि दृढानि च मृदूनि च ।विराटः प्रादिशद्यानि तेषामक्लिष्टकर्मणाम् ।तान्यामुच्य शरीरेषु दंशितास्ते परंतपाः ॥ २४ ॥
तरस्विनश्छन्नरूपाः सर्वे युद्धविशारदाः ।विराटमन्वयुः पश्चात्सहिताः कुरुपुंगवाः ।चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ॥ २५ ॥
भीमाश्च मत्तमातङ्गाः प्रभिन्नकरटामुखाः ।क्षरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः ॥ २६ ॥
स्वारूढा युद्धकुशलैः शिक्षितैर्हस्तिसादिभिः ।राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ २७ ॥
विशारदानां वश्यानां हृष्टानां चानुयायिनाम् ।अष्टौ रथसहस्राणि दश नागशतानि च ।षष्टिश्चाश्वसहस्राणि मत्स्यानामभिनिर्ययुः ॥ २८ ॥
तदनीकं विराटस्य शुशुभे भरतर्षभ ।संप्रयातं महाराज निनीषन्तं गवां पदम् ॥ २९ ॥
तद्बलाग्र्यं विराटस्य संप्रस्थितमशोभत ।दृढायुधजनाकीर्णं गजाश्वरथसंकुलम् ॥ ३० ॥
« »