Click on words to see what they mean.

वैशंपायन उवाच ।अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः ।प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ॥ १ ॥
असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह ।सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥ २ ॥
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो ।स कर्णमभ्युदीक्ष्याथ दुर्योधनमभाषत ॥ ३ ॥
असकृन्मत्स्यराज्ञा मे राष्ट्रं बाधितमोजसा ।प्रणेता कीचकश्चास्य बलवानभवत्पुरा ॥ ४ ॥
क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः ।निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ॥ ५ ॥
तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः ।भविष्यति निरुत्साहो विराट इति मे मतिः ॥ ६ ॥
तत्र यात्रा मम मता यदि ते रोचतेऽनघ ।कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ ७ ॥
एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् ।राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ॥ ८ ॥
आददामोऽस्य रत्नानि विविधानि वसूनि च ।ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ ९ ॥
अथ वा गोसहस्राणि बहूनि च शुभानि च ।विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥ १० ॥
कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते ।गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ॥ ११ ॥
संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् ।हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ॥ १२ ॥
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् ।भवतो बलवृद्धिश्च भविष्यति न संशयः ॥ १३ ॥
तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ।सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥ १४ ॥
तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीम् ।विभज्य चाप्यनीकानि यथा वा मन्यसेऽनघ ॥ १५ ॥
प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः ।आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ॥ १६ ॥
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम् ।संमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः ॥ १७ ॥
किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः ।अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ॥ १८ ॥
यामो राजन्ननुद्विग्ना विराटविषयं वयम् ।आदास्यामो हि गास्तस्य विविधानि वसूनि च ॥ १९ ॥
ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् ।वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ॥ २० ॥
शासने नित्यसंयुक्तं दुःशासनमनन्तरम् ।सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम् ॥ २१ ॥
यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः ।सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ॥ २२ ॥
त्रिगर्तैः सहितो राजा समग्रबलवाहनः ।प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ॥ २३ ॥
जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् ।विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥ २४ ॥
ते यात्वा सहसा तत्र विराटनगरं प्रति ।क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ॥ २५ ॥
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च ।वयमपि निगृह्णीमो द्विधा कृत्वा वरूथिनीम् ॥ २६ ॥
स स्म गत्वा यथोद्दिष्टां दिशं वह्नेर्महीपतिः ।आदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम् ॥ २७ ॥
अपरं दिवसं सर्वे राजन्संभूय कौरवाः ।अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ॥ २८ ॥
« »