Click on words to see what they mean.

वैशंपायन उवाच ।ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह ।क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥ १ ॥
ततस्तीर्थेषु पुण्येषु गोमत्याः पाण्डवा नृप ।कृताभिषेकाः प्रददुर्गाश्च वित्तं च भारत ॥ २ ॥
तत्र देवान्पितॄन्विप्रांस्तर्पयित्वा पुनः पुनः ।कन्यातीर्थेऽश्वतीर्थे च गवां तीर्थे च कौरवाः ॥ ३ ॥
वालकोट्यां वृषप्रस्थे गिरावुष्य च पाण्डवाः ।बाहुदायां महीपाल चक्रुः सर्वेऽभिषेचनम् ॥ ४ ॥
प्रयागे देवयजने देवानां पृथिवीपते ।ऊषुराप्लुत्य गात्राणि तपश्चातस्थुरुत्तमम् ॥ ५ ॥
गङ्गायमुनयोश्चैव संगमे सत्यसंगराः ।विपाप्मानो महात्मानो विप्रेभ्यः प्रददुर्वसु ॥ ६ ॥
तपस्विजनजुष्टां च ततो वेदीं प्रजापतेः ।जग्मुः पाण्डुसुता राजन्ब्राह्मणैः सह भारत ॥ ७ ॥
तत्र ते न्यवसन्वीरास्तपश्चातस्थुरुत्तमम् ।संतर्पयन्तः सततं वन्येन हविषा द्विजान् ॥ ८ ॥
ततो महीधरं जग्मुर्धर्मज्ञेनाभिसत्कृतम् ।राजर्षिणा पुण्यकृता गयेनानुपमद्युते ॥ ९ ॥
सरो गयशिरो यत्र पुण्या चैव महानदी ।ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् ॥ १० ॥
अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति ।उवास च स्वयं यत्र धर्मो राजन्सनातनः ॥ ११ ॥
सर्वासां सरितां चैव समुद्भेदो विशां पते ।यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ॥ १२ ॥
तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे ।ऋषियज्ञेन महता यत्राक्षयवटो महान् ॥ १३ ॥
ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः ।चातुर्मास्येनायजन्त आर्षेण विधिना तदा ॥ १४ ॥
तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः ।कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् ॥ १५ ॥
तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः ।शमठोऽकथयद्राजन्नामूर्तरयसं गयम् ॥ १६ ॥
अमूर्तरयसः पुत्रो गयो राजर्षिसत्तमः ।पुण्यानि यस्य कर्माणि तानि मे शृणु भारत ॥ १७ ॥
यस्य यज्ञो बभूवेह बह्वन्नो बहुदक्षिणः ।यत्रान्नपर्वता राजञ्शतशोऽथ सहस्रशः ॥ १८ ॥
घृतकुल्याश्च दध्नश्च नद्यो बहुशतास्तथा ।व्यञ्जनानां प्रवाहाश्च महार्हाणां सहस्रशः ॥ १९ ॥
अहन्यहनि चाप्येतद्याचतां संप्रदीयते ।अन्यत्तु ब्राह्मणा राजन्भुञ्जतेऽन्नं सुसंस्कृतम् ॥ २० ॥
तत्र वै दक्षिणाकाले ब्रह्मघोषो दिवं गतः ।न स्म प्रज्ञायते किंचिद्ब्रह्मशब्देन भारत ॥ २१ ॥
पुण्येन चरता राजन्भूर्दिशः खं नभस्तथा ।आपूर्णमासीच्छब्देन तदप्यासीन्महाद्भुतम् ॥ २२ ॥
तत्र स्म गाथा गायन्ति मनुष्या भरतर्षभ ।अन्नपानैः शुभैस्तृप्ता देशे देशे सुवर्चसः ॥ २३ ॥
गयस्य यज्ञे के त्वद्य प्राणिनो भोक्तुमीप्सवः ।यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः ॥ २४ ॥
न स्म पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।गयो यदकरोद्यज्ञे राजर्षिरमितद्युतिः ॥ २५ ॥
कथं नु देवा हविषा गयेन परितर्पिताः ।पुनः शक्ष्यन्त्युपादातुमन्यैर्दत्तानि कानिचित् ॥ २६ ॥
एवंविधाः सुबहवस्तस्य यज्ञे महात्मनः ।बभूवुरस्य सरसः समीपे कुरुनन्दन ॥ २७ ॥
« »