Click on words to see what they mean.

वैशंपायन उवाच ।स ददर्श पुरीं रम्यां सिद्धचारणसेविताम् ।सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥ १ ॥
तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम् ।उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥ २ ॥
नन्दनं च वनं दिव्यमप्सरोगणसेवितम् ।ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥ ३ ॥
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना ।स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ॥ ४ ॥
नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः ।नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥ ५ ॥
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथंचन ।पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥ ६ ॥
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम् ।प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥ ७ ॥
तत्र देवविमानानि कामगानि सहस्रशः ।संस्थितान्यभियातानि ददर्शायुतशस्तदा ॥ ८ ॥
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः ।पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥ ९ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।हृष्टाः संपूजयामासुः पार्थमक्लिष्टकारिणम् ॥ १० ॥
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः ।प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥ ११ ॥
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम् ।इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥ १२ ॥
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि ।आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥ १३ ॥
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः ।तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ॥ १४ ॥
तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः ।ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ॥ १५ ॥
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात् ।ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ॥ १६ ॥
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा ।दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥ १७ ॥
विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः ।स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥ १८ ॥
ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली ।स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ॥ १९ ॥
ततः शक्रासने पुण्ये देवराजर्षिपूजिते ।शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥ २० ॥
मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा ।अङ्कमारोपयामास प्रश्रयावनतं तदा ॥ २१ ॥
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा ।अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥ २२ ॥
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम् ।पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥ २३ ॥
परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ ।ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ॥ २४ ॥
वज्रग्रहणचिह्नेन करेण बलसूदनः ।मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ॥ २५ ॥
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक् ।हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥ २६ ॥
एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् ।सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ॥ २७ ॥
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना ।गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥ २८ ॥
घृताची मेनका रम्भा पूर्वचित्तिः स्वयंप्रभा ।उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी ॥ २९ ॥
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा ।चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥ ३० ॥
एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः ।चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥ ३१ ॥
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः ।कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ॥ ३२ ॥
« »