Click on words to see what they mean.

वैशंपायन उवाच ।ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् ।शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥ १ ॥
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् ।प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥ २ ॥
एवं संपूजितो जिष्णुरुवास भवने पितुः ।उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥ ३ ॥
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् ।अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥ ४ ॥
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः ।पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ॥ ५ ॥
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते ।नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ ६ ॥
वादित्रं देवविहितं नृलोके यन्न विद्यते ।तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥ ७ ॥
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः ।स तेन सह संगम्य रेमे पार्थो निरामयः ॥ ८ ॥
कदाचिदटमानस्तु महर्षिरुत लोमशः ।जगाम शक्रभवनं पुरंदरदिदृक्षया ॥ ९ ॥
स समेत्य नमस्कृत्य देवराजं महामुनिः ।ददर्शार्धासनगतं पाण्डवं वासवस्य ह ॥ १० ॥
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे ।निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥ ११ ॥
तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् ।कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥ १२ ॥
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः ।य एवमुपसंप्राप्तः स्थानं देवनमस्कृतम् ॥ १३ ॥
तस्य विज्ञाय संकल्पं शक्रो वृत्रनिषूदनः ।लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥ १४ ॥
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् ।नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ॥ १५ ॥
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः ।अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥ १६ ॥
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् ।शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥ १७ ॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ ।ताविमावभिजानीहि हृषीकेशधनंजयौ ॥ १८ ॥
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः ।तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ॥ १९ ॥
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च ।यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥ २० ॥
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती ।भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥ २१ ॥
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति ।विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ॥ २२ ॥
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः ।देवान्न गणयन्ते च तथा दत्तवरा हि ते ॥ २३ ॥
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः ।सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ॥ २४ ॥
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः ।कपिलो नाम देवोऽसौ भगवानजितो हरिः ॥ २५ ॥
येन पूर्वं महात्मानः खनमाना रसातलम् ।दर्शनादेव निहताः सगरस्यात्मजा विभो ॥ २६ ॥
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम ।पार्थेन च महायुद्धे समेताभ्यामसंशयम् ॥ २७ ॥
अयं तेषां समस्तानां शक्तः प्रतिसमासने ।तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥ २८ ॥
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम् ।काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥ २९ ॥
स वाच्यो मम संदेशाद्धर्मात्मा सत्यसंगरः ।नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥ ३० ॥
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे ।भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥ ३१ ॥
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः ।नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ॥ ३२ ॥
भवानपि विविक्तानि तीर्थानि मनुजेश्वर ।भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥ ३३ ॥
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः ।राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥ ३४ ॥
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले ।त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥ ३५ ॥
गिरिदुर्गेषु हि सदा देशेषु विषमेषु च ।वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ॥ ३६ ॥
स तथेति प्रतिज्ञाय लोमशः सुमहातपाः ।काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ॥ ३७ ॥
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम् ।तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥ ३८ ॥
« »