Click on words to see what they mean.

वैशंपायन उवाच ।गतेषु तेषु सर्वेषु तपस्विषु महात्मसु ।पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥ १ ॥
कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् ।विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥ २ ॥
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् ।निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥ ३ ॥
देव्या सहोमया श्रीमान्समानव्रतवेषया ।नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥ ४ ॥
किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः ।अशोभत तदा राजन्स देवोऽतीव भारत ॥ ५ ॥
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा ।नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥ ६ ॥
स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः ।मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥ ७ ॥
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् ।हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥ ८ ॥
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् ।सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥ ९ ॥
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् ।तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥ १० ॥
तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् ।किरातरूपी सहसा वारयामास शंकरः ॥ ११ ॥
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः ।अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥ १२ ॥
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः ।प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥ १३ ॥
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः ।मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ॥ १४ ॥
यथाशनिविनिष्पेषो वज्रस्येव च पर्वते ।तथा तयोः संनिपातः शरयोरभवत्तदा ॥ १५ ॥
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव ।ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ॥ १६ ॥
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् ।किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा ।तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ॥ १७ ॥
को भवानटते शून्ये वने स्त्रीगणसंवृतः ।न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ॥ १८ ॥
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ।मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ॥ १९ ॥
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे ।न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ।तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ॥ २० ॥
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव ।उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ॥ २१ ॥
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः ।ममैव च प्रहारेण जीविताद्व्यवरोपितः ॥ २२ ॥
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः ।अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥ २३ ॥
स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव ।घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥ २४ ॥
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः ।शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥ २५ ॥
ततोऽर्जुनः शरवर्षं किराते समवासृजत् ।तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः ॥ २६ ॥
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् ।अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ॥ २७ ॥
स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनंजयः ।परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ॥ २८ ॥
अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः ।गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥ २९ ॥
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः ।विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥ ३० ॥
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः ।शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥ ३१ ॥
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः ।अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥ ३२ ॥
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः ।व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥ ३३ ॥
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः ।शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥ ३४ ॥
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा ।वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ॥ ३५ ॥
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् ।पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥ ३६ ॥
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः ।अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ॥ ३७ ॥
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् ।नयामि दण्डधारस्य यमस्य सदनं प्रति ॥ ३८ ॥
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा ।तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ॥ ३९ ॥
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत ।युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥ ४० ॥
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि ।मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ।तस्य मूर्धानमासाद्य पफालासिवरो हि सः ॥ ४१ ॥
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ।यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ॥ ४२ ॥
किरातरूपी भगवांस्ततः पार्थो महाबलः ।मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ।प्रजहार दुराधर्षे किरातसमरूपिणि ॥ ४३ ॥
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः ।किरातरूपी भगवानर्दयामास फल्गुनम् ॥ ४४ ॥
ततश्चटचटाशब्दः सुघोरः समजायत ।पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ॥ ४५ ॥
सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् ।भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥ ४६ ॥
जहाराथ ततो जिष्णुः किरातमुरसा बली ।पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् ॥ ४७ ॥
तयोर्भुजविनिष्पेषात्संघर्षेणोरसोस्तथा ।समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥ ४८ ॥
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् ।तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥ ४९ ॥
ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ ।फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥ ५० ॥
निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना ।ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ॥ ५१ ॥
भगवानुवाच ।भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते ।शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥ ५२ ॥
समं तेजश्च वीर्यं च ममाद्य तव चानघ ।प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ ॥ ५३ ॥
ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् ।विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥ ५४ ॥
वैशंपायन उवाच ।ततो देवं महादेवं गिरिशं शूलपाणिनम् ।ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥ ५५ ॥
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च ।प्रसादयामास हरं पार्थः परपुरंजयः ॥ ५६ ॥
अर्जुन उवाच ।कपर्दिन्सर्वभूतेश भगनेत्रनिपातन ।व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर ॥ ५७ ॥
भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् ।दयितं तव देवेश तापसालयमुत्तमम् ॥ ५८ ॥
प्रसादये त्वां भगवन्सर्वभूतनमस्कृत ।न मे स्यादपराधोऽयं महादेवातिसाहसात् ॥ ५९ ॥
कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह ।शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर ॥ ६० ॥
वैशंपायन उवाच ।तमुवाच महातेजाः प्रहस्य वृषभध्वजः ।प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥ ६१ ॥
« »