Click on words to see what they mean.

जनमेजय उवाच ।भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः ।विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ॥ १ ॥
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनंजयः ।वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥ २ ॥
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम ।कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥ ३ ॥
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम ।त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥ ४ ॥
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः ।भवेन सह संग्रामं चकाराप्रतिमं किल ।पुरा प्रहरतां श्रेष्ठः संग्रामेष्वपराजितः ॥ ५ ॥
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात् ।शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥ ६ ॥
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद ।न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ।चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥ ७ ॥
वैशंपायन उवाच ।कथयिष्यामि ते तात कथामेतां महात्मनः ।दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥ ८ ॥
गात्रसंस्पर्शसंबन्धं त्र्यम्बकेण सहानघ ।पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥ ९ ॥
युधिष्ठिरनियोगात्स जगामामितविक्रमः ।शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शंकरम् ॥ १० ॥
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः ।महाबलो महाबाहुरर्जुनः कार्यसिद्धये ।दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ॥ ११ ॥
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः ।त्वरया परया युक्तस्तपसे धृतनिश्चयः ।वनं कण्टकितं घोरमेक एवान्वपद्यत ॥ १२ ॥
नानापुष्पफलोपेतं नानापक्षिनिषेवितम् ।नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ १३ ॥
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम् ।शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥ १४ ॥
पुष्पवर्षं च सुमहन्निपपात महीतले ।मेघजालं च विततं छादयामास सर्वतः ॥ १५ ॥
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः ।शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥ १६ ॥
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान् ।नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ॥ १७ ॥
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा ।पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥ १८ ॥
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः ।पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ॥ १९ ॥
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा ।तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥ २० ॥
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः ।पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ।द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ॥ २१ ॥
तृतीयमपि मासं स पक्षेणाहारमाचरन् ।शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ॥ २२ ॥
चतुर्थे त्वथ संप्राप्ते मासि पूर्णे ततः परम् ।वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ।ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ॥ २३ ॥
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः ।विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥ २४ ॥
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम् ।शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ।सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥ २५ ॥
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः ।उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ॥ २६ ॥
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम् ।संतापयति नः सर्वानसौ साधु निवार्यताम् ॥ २७ ॥
महेश्वर उवाच ।शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः ।अहमस्य विजानामि संकल्पं मनसि स्थितम् ॥ २८ ॥
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः ।यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ॥ २९ ॥
वैशंपायन उवाच ।ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः ।प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ॥ ३० ॥
« »