Click on words to see what they mean.

वैशंपायन उवाच ।सा तु कन्या महाराज ब्राह्मणं संशितव्रतम् ।तोषयामास शुद्धेन मनसा संशितव्रता ॥ १ ॥
प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः ।तत आयाति राजेन्द्र साये रात्रावथो पुनः ॥ २ ॥
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः ।पूजयामास सा कन्या वर्धमानैस्तु सर्वदा ॥ ३ ॥
अन्नादिसमुदाचारः शय्यासनकृतस्तथा ।दिवसे दिवसे तस्य वर्धते न तु हीयते ॥ ४ ॥
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा ।ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा ॥ ५ ॥
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः ।दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत् ॥ ६ ॥
कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत् ।शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता ॥ ७ ॥
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा ।प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता ॥ ८ ॥
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः ।अवधानेन भूयोऽस्य परं यत्नमथाकरोत् ॥ ९ ॥
तां प्रभाते च साये च पिता पप्रच्छ भारत ।अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया ॥ १० ॥
तं सा परममित्येव प्रत्युवाच यशस्विनी ।ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः ॥ ११ ॥
ततः संवत्सरे पूर्णे यदासौ जपतां वरः ।नापश्यद्दुष्कृतं किंचित्पृथायाः सौहृदे रतः ॥ १२ ॥
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत् ।प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे ॥ १३ ॥
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह ।यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि ॥ १४ ॥
कुन्त्युवाच ।कृतानि मम सर्वाणि यस्या मे वेदवित्तम ।त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम ॥ १५ ॥
ब्राह्मण उवाच ।यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते ।इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम् ॥ १६ ॥
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि ।तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति ॥ १७ ॥
अकामो वा सकामो वा न स नैष्यति ते वशम् ।विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः ॥ १८ ॥
वैशंपायन उवाच ।न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता ।तं वै द्विजातिप्रवरं तदा शापभयान्नृप ॥ १९ ॥
ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः ।मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम् ॥ २० ॥
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह ।उषितोऽस्मि सुखं राजन्कन्यया परितोषितः ॥ २१ ॥
तव गेहे सुविहितः सदा सुप्रतिपूजितः ।साधयिष्यामहे तावदित्युक्त्वान्तरधीयत ॥ २२ ॥
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा ।बभूव विस्मयाविष्टः पृथां च समपूजयत् ॥ २३ ॥
« »