Click on words to see what they mean.

मार्कण्डेय उवाच ।एतस्मिन्नेव काले तु द्युमत्सेनो महावने ।लब्धचक्षुः प्रसन्नात्मा दृष्ट्या सर्वं ददर्श ह ॥ १ ॥
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया ।पुत्रहेतोः परामार्तिं जगाम मनुजर्षभ ॥ २ ॥
तावाश्रमान्नदीश्चैव वनानि च सरांसि च ।तांस्तान्देशान्विचिन्वन्तौ दम्पती परिजग्मतुः ॥ ३ ॥
श्रुत्वा शब्दं तु यत्किंचिदुन्मुखौ सुतशङ्कया ।सावित्रीसहितोऽभ्येति सत्यवानित्यधावताम् ॥ ४ ॥
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः ।कुशकण्टकविद्धाङ्गावुन्मत्ताविव धावतः ॥ ५ ॥
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः ।परिवार्य समाश्वास्य समानीतौ स्वमाश्रमम् ॥ ६ ॥
तत्र भार्यासहायः स वृतो वृद्धैस्तपोधनैः ।आश्वासितो विचित्रार्थैः पूर्वराज्ञां कथाश्रयैः ॥ ७ ॥
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया ।बाल्ये वृत्तानि पुत्रस्य स्मरन्तौ भृशदुःखितौ ॥ ८ ॥
पुनरुक्त्वा च करुणां वाचं तौ शोककर्शितौ ।हा पुत्र हा साध्वि वधूः क्वासि क्वासीत्यरोदताम् ॥ ९ ॥
सुवर्चा उवाच ।यथास्य भार्या सावित्री तपसा च दमेन च ।आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ १० ॥
गौतम उवाच ।वेदाः साङ्गा मयाधीतास्तपो मे संचितं महत् ।कौमारं ब्रह्मचर्यं मे गुरवोऽग्निश्च तोषिताः ॥ ११ ॥
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे ।वायुभक्षोपवासश्च कुशलानि च यानि मे ॥ १२ ॥
अनेन तपसा वेद्मि सर्वं परिचिकीर्षितम् ।सत्यमेतन्निबोध त्वं ध्रियते सत्यवानिति ॥ १३ ॥
शिष्य उवाच ।उपाध्यायस्य मे वक्त्राद्यथा वाक्यं विनिःसृतम् ।नैतज्जातु भवेन्मिथ्या तथा जीवति सत्यवान् ॥ १४ ॥
ऋषय ऊचुः ।यथास्य भार्या सावित्री सर्वैरेव सुलक्षणैः ।अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान् ॥ १५ ॥
भारद्वाज उवाच ।यथास्य भार्या सावित्री तपसा च दमेन च ।आचारेण च संयुक्ता तथा जीवति सत्यवान् ॥ १६ ॥
दाल्भ्य उवाच ।यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम् ।गताहारमकृत्वा च तथा जीवति सत्यवान् ॥ १७ ॥
माण्डव्य उवाच ।यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः ।पार्थिवी च प्रवृत्तिस्ते तथा जीवति सत्यवान् ॥ १८ ॥
धौम्य उवाच ।सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः ।दीर्घायुर्लक्षणोपेतस्तथा जीवति सत्यवान् ॥ १९ ॥
मार्कण्डेय उवाच ।एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः ।तांस्तान्विगणयन्नर्थानवस्थित इवाभवत् ॥ २० ॥
ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह ।आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥ २१ ॥
ब्राह्मणा ऊचुः ।पुत्रेण संगतं त्वाद्य चक्षुष्मन्तं निरीक्ष्य च ।सर्वे वयं वै पृच्छामो वृद्धिं ते पृथिवीपते ॥ २२ ॥
समागमेन पुत्रस्य सावित्र्या दर्शनेन च ।चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥ २३ ॥
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्र संशयः ।भूयो भूयश्च वृद्धिस्ते क्षिप्रमेव भविष्यति ॥ २४ ॥
मार्कण्डेय उवाच ।ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि ।उपासां चक्रिरे पार्थ द्युमत्सेनं महीपतिम् ॥ २५ ॥
शैब्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः ।सर्वैस्तैरभ्यनुज्ञाता विशोकाः समुपाविशन् ॥ २६ ॥
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः ।जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥ २७ ॥
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो ।विरात्रे चागतं कस्मात्कोऽनुबन्धश्च तेऽभवत् ॥ २८ ॥
संतापितः पिता माता वयं चैव नृपात्मज ।नाकस्मादिति जानीमस्तत्सर्वं वक्तुमर्हसि ॥ २९ ॥
सत्यवानुवाच ।पित्राहमभ्यनुज्ञातः सावित्रीसहितो गतः ।अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ ३० ॥
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये ।तावत्कालं च न मया सुप्तपूर्वं कदाचन ॥ ३१ ॥
सर्वेषामेव भवतां संतापो मा भवेदिति ।अतो विरात्रागमनं नान्यदस्तीह कारणम् ॥ ३२ ॥
गौतम उवाच ।अकस्माच्चक्षुषः प्राप्तिर्द्युमत्सेनस्य ते पितुः ।नास्य त्वं कारणं वेत्थ सावित्री वक्तुमर्हति ॥ ३३ ॥
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम् ।त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा ॥ ३४ ॥
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम् ।रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः ॥ ३५ ॥
सावित्र्युवाच ।एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः ।न च किंचिद्रहस्यं मे श्रूयतां तथ्यमत्र यत् ॥ ३६ ॥
मृत्युर्मे भर्तुराख्यातो नारदेन महात्मना ।स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥ ३७ ॥
सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः ।स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥ ३८ ॥
अस्तौषं तमहं देवं सत्येन वचसा विभुम् ।पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥ ३९ ॥
चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे ।लब्धं पितुः पुत्रशतं पुत्राणामात्मनः शतम् ॥ ४० ॥
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।भर्तुर्हि जीवितार्थं तु मया चीर्णं स्थिरं व्रतम् ॥ ४१ ॥
एतत्सत्यं मयाख्यातं कारणं विस्तरेण वः ।यथा वृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥ ४२ ॥
ऋषय ऊचुः ।निमज्जमानं व्यसनैरभिद्रुतं कुलं नरेन्द्रस्य तमोमये ह्रदे ।त्वया सुशीले धृतधर्मपुण्यया समुद्धृतं साध्वि पुनः कुलीनया ॥ ४३ ॥
मार्कण्डेय उवाच ।तथा प्रशस्य ह्यभिपूज्य चैव ते वरस्त्रियं तामृषयः समागताः ।नरेन्द्रमामन्त्र्य सपुत्रमञ्जसा शिवेन जग्मुर्मुदिताः स्वमालयम् ॥ ४४ ॥
« »