Click on words to see what they mean.

मार्कण्डेय उवाच ।अथ भार्यासहायः स फलान्यादाय वीर्यवान् ।कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥ १ ॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥ २ ॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ।व्यायामेन ममानेन जाता शिरसि वेदना ॥ ३ ॥
अङ्गानि चैव सावित्रि हृदयं दूयतीव च ।अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥ ४ ॥
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् ।तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ॥ ५ ॥
समासाद्याथ सावित्री भर्तारमुपगूह्य च ।उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ॥ ६ ॥
ततः सा नारदवचो विमृशन्ती तपस्विनी ।तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥ ७ ॥
मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम् ।बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥ ८ ॥
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् ।स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च ॥ ९ ॥
तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः ।कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता ॥ १० ॥
दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम् ।कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि ॥ ११ ॥
यम उवाच ।पतिव्रतासि सावित्रि तथैव च तपोन्विता ।अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥ १२ ॥
अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः ।नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ॥ १३ ॥
मार्कण्डेय उवाच ।इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम् ।यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे ॥ १४ ॥
अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः ।नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ॥ १५ ॥
ततः सत्यवतः कायात्पाशबद्धं वशं गतम् ।अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् ॥ १६ ॥
ततः समुद्धृतप्राणं गतश्वासं हतप्रभम् ।निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ॥ १७ ॥
यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः ।सावित्री चापि दुःखार्ता यममेवान्वगच्छत ।नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥ १८ ॥
यम उवाच ।निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् ।कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया ॥ १९ ॥
सावित्र्युवाच ।यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति ।मयापि तत्र गन्तव्यमेष धर्मः सनातनः ॥ २० ॥
तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च ।तव चैव प्रसादेन न मे प्रतिहता गतिः ॥ २१ ॥
प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः ।मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥ २२ ॥
नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च ।विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ २३ ॥
एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः ।मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ २४ ॥
यम उवाच ।निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया ।वरं वृणीष्वेह विनास्य जीवितं ददानि ते सर्वमनिन्दिते वरम् ॥ २५ ॥
सावित्र्युवाच ।च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे ।स लब्धचक्षुर्बलवान्भवेन्नृपस्तव प्रसादाज्ज्वलनार्कसंनिभः ॥ २६ ॥
यम उवाच ।ददानि ते सर्वमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा ।तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥ २७ ॥
सावित्र्युवाच ।कुतः श्रमो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्ध्रुवा ।यतः पतिं नेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥ २८ ॥
सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते ।न चाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे ॥ २९ ॥
यम उवाच ।मनोनुकूलं बुधबुद्धिवर्धनं त्वयाहमुक्तो वचनं हिताश्रयम् ।विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥ ३० ॥
सावित्र्युवाच ।हृतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं स लभेत पार्थिवः ।जह्यात्स्वधर्मं न च मे गुरुर्यथा द्वितीयमेतं वरयामि ते वरम् ॥ ३१ ॥
यम उवाच ।स्वमेव राज्यं प्रतिपत्स्यतेऽचिरान्न च स्वधर्मात्परिहास्यते नृपः ।कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥ ३२ ॥
सावित्र्युवाच ।प्रजास्त्वयेमा नियमेन संयता नियम्य चैता नयसे न कामया ।अतो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥ ३३ ॥
अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ ३४ ॥
एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः ।सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥ ३५ ॥
यम उवाच ।पिपासितस्येव यथा भवेत्पयस्तथा त्वया वाक्यमिदं समीरितम् ।विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥ ३६ ॥
सावित्र्युवाच ।ममानपत्यः पृथिवीपतिः पिता भवेत्पितुः पुत्रशतं ममौरसम् ।कुलस्य संतानकरं च यद्भवेत्तृतीयमेतं वरयामि ते वरम् ॥ ३७ ॥
यम उवाच ।कुलस्य संतानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे ।कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ ३८ ॥
सावित्र्युवाच ।न दूरमेतन्मम भर्तृसंनिधौ मनो हि मे दूरतरं प्रधावति ।तथा व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च ॥ ३९ ॥
विवस्वतस्त्वं तनयः प्रतापवांस्ततो हि वैवस्वत उच्यसे बुधैः ।शमेन धर्मेण च रञ्जिताः प्रजास्ततस्तवेहेश्वर धर्मराजता ॥ ४० ॥
आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः ।तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ ४१ ॥
सौहृदात्सर्वभूतानां विश्वासो नाम जायते ।तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ॥ ४२ ॥
यम उवाच ।उदाहृतं ते वचनं यदङ्गने शुभे न तादृक्त्वदृते मया श्रुतम् ।अनेन तुष्टोऽस्मि विनास्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥ ४३ ॥
सावित्र्युवाच ।ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् ।शतं सुतानां बलवीर्यशालिनामिदं चतुर्थं वरयामि ते वरम् ॥ ४४ ॥
यम उवाच ।शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले ।परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ ४५ ॥
सावित्र्युवाच ।सतां सदा शाश्वती धर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति ।सतां सद्भिर्नाफलः संगमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥ ४६ ॥
सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति ।सन्तो गतिर्भूतभव्यस्य राजन्सतां मध्ये नावसीदन्ति सन्तः ॥ ४७ ॥
आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् ।सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम् ॥ ४८ ॥
न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः ।यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥ ४९ ॥
यम उवाच ।यथा यथा भाषसि धर्मसंहितं मनोनुकूलं सुपदं महार्थवत् ।तथा तथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं यतव्रते ॥ ५० ॥
सावित्र्युवाच ।न तेऽपवर्गः सुकृताद्विनाकृतस्तथा यथान्येषु वरेषु मानद ।वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं विना पतिम् ॥ ५१ ॥
न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् ।न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम् ॥ ५२ ॥
वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः ।वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥ ५३ ॥
मार्कण्डेय उवाच ।तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः ।धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥ ५४ ॥
एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि ।अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति ॥ ५५ ॥
चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति ।इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति ॥ ५६ ॥
त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति ।ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः ।ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः ॥ ५७ ॥
पितुश्च ते पुत्रशतं भविता तव मातरि ।मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः ।भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः ॥ ५८ ॥
एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् ।निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥ ५९ ॥
सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च ।जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥ ६० ॥
सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च ।उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥ ६१ ॥
संज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत ।प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ॥ ६२ ॥
सत्यवानुवाच ।सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः ।क्व चासौ पुरुषः श्यामो योऽसौ मां संचकर्ष ह ॥ ६३ ॥
सावित्र्युवाच ।सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ ।गतः स भगवान्देवः प्रजासंयमनो यमः ॥ ६४ ॥
विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज ।यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥ ६५ ॥
मार्कण्डेय उवाच ।उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः ।दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान् ॥ ६६ ॥
फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे ।ततः पाटयतः काष्ठं शिरसो मे रुजाभवत् ॥ ६७ ॥
शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन् ।तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे ॥ ६८ ॥
त्वयोपगूढस्य च मे निद्रयापहृतं मनः ।ततोऽपश्यं तमो घोरं पुरुषं च महौजसम् ॥ ६९ ॥
तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे ।स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत् ॥ ७० ॥
तमुवाचाथ सावित्री रजनी व्यवगाहते ।श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज ॥ ७१ ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत ।विगाढा रजनी चेयं निवृत्तश्च दिवाकरः ॥ ७२ ॥
नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः ।श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने ॥ ७३ ॥
एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम् ।आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम ॥ ७४ ॥
सत्यवानुवाच ।वनं प्रतिभयाकारं घनेन तमसा वृतम् ।न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि ॥ ७५ ॥
सावित्र्युवाच ।अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन् ।वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित् ॥ ७६ ॥
ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः ।काष्ठानीमानि सन्तीह जहि संतापमात्मनः ॥ ७७ ॥
यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये ।न च ज्ञास्यसि पन्थानं तमसा संवृते वने ॥ ७८ ॥
श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव ।वसावेह क्षपामेतां रुचितं यदि तेऽनघ ॥ ७९ ॥
सत्यवानुवाच ।शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये ।मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादजम् ॥ ८० ॥
न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः ।अनागतायां संध्यायां माता मे प्ररुणद्धि माम् ॥ ८१ ॥
दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम ।विचिनोति च मां तातः सहैवाश्रमवासिभिः ॥ ८२ ॥
मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा ।उपालब्धः सुबहुशश्चिरेणागच्छसीति ह ॥ ८३ ॥
का त्ववस्था तयोरद्य मदर्थमिति चिन्तये ।तयोरदृश्ये मयि च महद्दुःखं भविष्यति ॥ ८४ ॥
पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ ।भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ ॥ ८५ ॥
त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक ।यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम् ॥ ८६ ॥
वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः ।त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति ॥ ८७ ॥
माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल ।तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः ॥ ८८ ॥
निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम ।माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी ॥ ८९ ॥
अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः ।मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे ॥ ९० ॥
व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम ।एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम् ॥ ९१ ॥
नात्मानमनुशोचामि यथाहं पितरं शुभे ।भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम् ॥ ९२ ॥
मत्कृतेन हि तावद्य संतापं परमेष्यतः ।जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह ।तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम् ॥ ९३ ॥
मार्कण्डेय उवाच ।एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः ।उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह ॥ ९४ ॥
ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम् ।प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी ॥ ९५ ॥
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि ।श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी ॥ ९६ ॥
न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम् ।तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम ॥ ९७ ॥
सत्यवानुवाच ।कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम् ।पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम् ।न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥ ९८ ॥
यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि ।मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात् ॥ ९९ ॥
मार्कण्डेय उवाच ।सावित्री तत उत्थाय केशान्संयम्य भामिनी ।पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै ॥ १०० ॥
उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना ।दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे ॥ १०१ ॥
तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि ।योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम् ॥ १०२ ॥
कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम् ।गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत् ॥ १०३ ॥
वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा ।दक्षिणेन परिष्वज्य जगाम मृदुगामिनी ॥ १०४ ॥
सत्यवानुवाच ।अभ्यासगमनाद्भीरु पन्थानो विदिता मम ।वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये ॥ १०५ ॥
आगतौ स्वः पथा येन फलान्यवचितानि च ।यथागतं शुभे गच्छ पन्थानं मा विचारय ॥ १०६ ॥
पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा ।तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च ।स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ ॥ १०७ ॥
मार्कण्डेय उवाच ।ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति ॥ १०८ ॥
« »