Click on words to see what they mean.

युधिष्ठिर उवाच ।नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने ।हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम् ॥ १ ॥
द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम् ।जयद्रथेन च पुनर्वनादपहृता बलात् ॥ २ ॥
अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता ।पतिव्रता महाभागा यथेयं द्रुपदात्मजा ॥ ३ ॥
मार्कण्डेय उवाच ।शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर ।सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया ॥ ४ ॥
आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः ।ब्रह्मण्यश्च शरण्यश्च सत्यसंधो जितेन्द्रियः ॥ ५ ॥
यज्वा दानपतिर्दक्षः पौरजानपदप्रियः ।पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥ ६ ॥
क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः ।अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ॥ ७ ॥
अपत्योत्पादनार्थं स तीव्रं नियममास्थितः ।काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥ ८ ॥
हुत्वा शतसहस्रं स सावित्र्या राजसत्तम ।षष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥ ९ ॥
एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु ।पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ।स्वरूपिणी तदा राजन्दर्शयामास तं नृपम् ॥ १० ॥
अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता ।उवाच चैनं वरदा वचनं पार्थिवं तदा ॥ ११ ॥
ब्रह्मचर्येण शुद्धेन दमेन नियमेन च ।सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव ॥ १२ ॥
वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम् ।न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन ॥ १३ ॥
अश्वपतिरुवाच ।अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया ।पुत्रा मे बहवो देवि भवेयुः कुलभावनाः ॥ १४ ॥
तुष्टासि यदि मे देवि काममेतं वृणोम्यहम् ।संतानं हि परो धर्म इत्याहुर्मां द्विजातयः ॥ १५ ॥
सावित्र्युवाच ।पूर्वमेव मया राजन्नभिप्रायमिमं तव ।ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः ॥ १६ ॥
प्रसादाच्चैव तस्मात्ते स्वयंभुविहिताद्भुवि ।कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥ १७ ॥
उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन ।पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते ॥ १८ ॥
मार्कण्डेय उवाच ।स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः ।प्रसादयामास पुनः क्षिप्रमेवं भवेदिति ॥ १९ ॥
अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः ।स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन् ॥ २० ॥
कस्मिंश्चित्तु गते काले स राजा नियतव्रतः ।ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे ॥ २१ ॥
राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ ।व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे ॥ २२ ॥
प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम् ।क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा ॥ २३ ॥
सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि ।सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥ २४ ॥
सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा ।कालेन चापि सा कन्या यौवनस्था बभूव ह ॥ २५ ॥
तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव ।प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः ॥ २६ ॥
तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा ।न कश्चिद्वरयामास तेजसा प्रतिवारितः ॥ २७ ॥
अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा ।हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि ॥ २८ ॥
ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः ।पितुः सकाशमगमद्देवी श्रीरिव रूपिणी ॥ २९ ॥
साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च ।कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता ॥ ३० ॥
यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् ।अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥ ३१ ॥
राजोवाच ।पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् ।स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥ ३२ ॥
प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम ।विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥ ३३ ॥
श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः ।तथा त्वमपि कल्याणि गदतो मे वचः शृणु ॥ ३४ ॥
अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः ।मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता ॥ ३५ ॥
इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर ।देवतानां यथा वाच्यो न भवेयं तथा कुरु ॥ ३६ ॥
मार्कण्डेय उवाच ।एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः ।व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत् ॥ ३७ ॥
साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी ।पितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥ ३८ ॥
सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता ।तपोवनानि रम्याणि राजर्षीणां जगाम ह ॥ ३९ ॥
मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम् ।वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥ ४० ॥
एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा ।कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥ ४१ ॥
« »