Click on words to see what they mean.

वैशंपायन उवाच ।जयद्रथस्तु संप्रेक्ष्य भ्रातरावुद्यतायुधौ ।प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥ १ ॥
तं भीमसेनो धावन्तमवतीर्य रथाद्बली ।अभिद्रुत्य निजग्राह केशपक्षेऽत्यमर्षणः ॥ २ ॥
समुद्यम्य च तं रोषान्निष्पिपेष महीतले ।गले गृहीत्वा राजानं ताडयामास चैव ह ॥ ३ ॥
पुनः संजीवमानस्य तस्योत्पतितुमिच्छतः ।पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ ४ ॥
तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना ।स मोहमगमद्राजा प्रहारवरपीडितः ॥ ५ ॥
विरोषं भीमसेनं तु वारयामास फल्गुनः ।दुःशलायाः कृते राजा यत्तदाहेति कौरव ॥ ६ ॥
भीमसेन उवाच ।नायं पापसमाचारो मत्तो जीवितुमर्हति ।द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः ॥ ७ ॥
किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी ।त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥ ८ ॥
एवमुक्त्वा सटास्तस्य पञ्च चक्रे वृकोदरः ।अर्धचन्द्रेण बाणेन किंचिदब्रुवतस्तदा ॥ ९ ॥
विकल्पयित्वा राजानं ततः प्राह वृकोदरः ।जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ १० ॥
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च ।एवं ते जीवितं दद्यामेष युद्धजितो विधिः ॥ ११ ॥
एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः ।प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ॥ १२ ॥
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः ।रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ॥ १३ ॥
ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा ।अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम् ॥ १४ ॥
दर्शयामास भीमस्तु तदवस्थं जयद्रथम् ।तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥ १५ ॥
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै ।दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥ १६ ॥
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः ।मुञ्चैनमधमाचारं प्रमाणं यदि ते वयम् ॥ १७ ॥
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् ।दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चसटः कृतः ॥ १८ ॥
स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम् ।ववन्दे विह्वलो राजा तांश्च सर्वान्मुनींस्तदा ॥ १९ ॥
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः ।तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥ २० ॥
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित् ।स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान् ।एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः ॥ २१ ॥
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् ।संप्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः ॥ २२ ॥
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः ।साश्वः सरथपादातः स्वस्ति गच्छ जयद्रथ ॥ २३ ॥
एवमुक्तस्तु सव्रीडं तूष्णीं किंचिदवाङ्मुखः ।जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥ २४ ॥
स देवं शरणं गत्वा विरूपाक्षमुमापतिम् ।तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥ २५ ॥
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः ।वरं चास्मै ददौ देवः स च जग्राह तच्छृणु ॥ २६ ॥
समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान् ।इति राजाब्रवीद्देवं नेति देवस्तमब्रवीत् ॥ २७ ॥
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि ।ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम् ॥ २८ ॥
यमाहुरजितं देवं शङ्खचक्रगदाधरम् ।प्रधानः सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते ॥ २९ ॥
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ ।पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तदा ॥ ३० ॥
« »