Click on words to see what they mean.

वैशंपायन उवाच ।संतिष्ठत प्रहरत तूर्णं विपरिधावत ।इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ॥ १ ॥
ततो घोरतरः शब्दो रणे समभवत्तदा ।भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥ २ ॥
शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत ।तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥ ३ ॥
हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् ।प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥ ४ ॥
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् ।महता रथवंशेन परिवार्य वृकोदरम् ॥ ५ ॥
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः ।कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत ॥ ६ ॥
गजं तु सगजारोहं पदातींश्च चतुर्दश ।जघान गदया भीमः सैन्धवध्वजिनीमुखे ॥ ७ ॥
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् ।परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥ ८ ॥
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् ।निमेषमात्रेण शतं जघान समरे तदा ॥ ९ ॥
ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् ।शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥ १० ॥
सहदेवस्तु संयाय रथेन गजयोधिनः ।पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥ ११ ॥
ततस्त्रिगर्तः सधनुरवतीर्य महारथात् ।गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् ॥ १२ ॥
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः ।अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट् ॥ १३ ॥
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन् ।पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः ॥ १४ ॥
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् ।हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥ १५ ॥
नकुलं त्वभिसंधाय क्षेमंकरमहामुखौ ।उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥ १६ ॥
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ ।एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥ १७ ॥
त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः ।रथमाक्षेपयामास गजेन गजयानवित् ॥ १८ ॥
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् ।उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः ॥ १९ ॥
सुरथस्तं गजवरं वधाय नकुलस्य तु ।प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ॥ २० ॥
नकुलस्तस्य नागस्य समीपपरिवर्तिनः ।सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥ २१ ॥
स विनद्य महानादं गजः कङ्कणभूषणः ।पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत् ॥ २२ ॥
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः ।भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥ २३ ॥
भीमस्त्वापततो राज्ञः कोटिकाश्यस्य संगरे ।सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥ २४ ॥
न बुबोध हतं सूतं स राजा बाहुशालिना ।तस्याश्वा व्यद्रवन्संख्ये हतसूतास्ततस्ततः ॥ २५ ॥
विमुखं हतसूतं तं भीमः प्रहरतां वरः ।जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥ २६ ॥
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः ।चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च ॥ २७ ॥
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि ।जघानातिरथः संख्ये बाणगोचरमागतान् ॥ २८ ॥
सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना ।सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥ २९ ॥
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति ।शरीराण्यशिरस्कानि विदेहानि शिरांसि च ॥ ३० ॥
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः ।अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥ ३१ ॥
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः ।विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् ॥ ३२ ॥
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य वै ।प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः ॥ ३३ ॥
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् ।माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥ ३४ ॥
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे ।आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥ ३५ ॥
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् ।वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥ ३६ ॥
अर्जुन उवाच ।यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः ।तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥ ३७ ॥
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः ।अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥ ३८ ॥
वैशंपायन उवाच ।इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता ।युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत् ॥ ३९ ॥
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः ।गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥ ४० ॥
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना ।प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ॥ ४१ ॥
न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः ।पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः ॥ ४२ ॥
युधिष्ठिर उवाच ।न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः ।दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥ ४३ ॥
वैशंपायन उवाच ।तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया ।कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ॥ ४४ ॥
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः ।सैन्धवापसदः पापो दुर्मतिः कुलपांसनः ॥ ४५ ॥
भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः ।याचमानोऽपि संग्रामे न स जीवितुमर्हति ॥ ४६ ॥
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः ।राजा निववृते कृष्णामादाय सपुरोहितः ॥ ४७ ॥
स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम् ।मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ॥ ४८ ॥
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः ।समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः ॥ ४९ ॥
ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम् ।जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः ॥ ५० ॥
स तैः परिवृतो राजा तत्रैवोपविवेश ह ।प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥ ५१ ॥
भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम् ।स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ॥ ५२ ॥
इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः ।क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥ ५३ ॥
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः ।अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥ ५४ ॥
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ ।हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ॥ ५५ ॥
सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः ।दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम् ।पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥ ५६ ॥
सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने ।अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥ ५७ ॥
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् ।राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ।कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे ॥ ५८ ॥
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ।तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली ।मा वधीरिति पार्थस्तं दयावानभ्यभाषत ॥ ५९ ॥
« »