Click on words to see what they mean.

वैशंपायन उवाच ।ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः ।अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥ १ ॥
द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने ।समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥ २ ॥
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् ।यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ॥ ३ ॥
एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः ।गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ॥ ४ ॥
अर्जुन उवाच ।भवानेव महर्षीणां वृद्धानां पर्युपासिता ।अज्ञातं मानुषे लोके भवतो नास्ति किंचन ॥ ५ ॥
त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ ।द्वैपायनप्रभृतयो नारदश्च महातपाः ॥ ६ ॥
यः सर्वलोकद्वाराणि नित्यं संचरते वशी ।देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥ ७ ॥
सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः ।प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥ ८ ॥
त्वमेव राजञ्जानासि श्रेयःकारणमेव च ।यत्रेच्छसि महाराज निवासं तत्र कुर्महे ॥ ९ ॥
इदं द्वैतवनं नाम सरः पुण्यजनोचितम् ।बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥ १० ॥
अत्रेमा द्वादश समा विहरेमेति रोचये ।यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ॥ ११ ॥
युधिष्ठिर उवाच ।ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् ।गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ॥ १२ ॥
वैशंपायन उवाच ।ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः ।ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥ १३ ॥
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः ।स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ॥ १४ ॥
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् ।तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥ १५ ॥
ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह ।पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ॥ १६ ॥
तच्छालतालाम्रमधूकनीप कदम्बसर्जार्जुनकर्णिकारैः ।तपात्यये पुष्पधरैरुपेतं महावनं राष्ट्रपतिर्ददर्श ॥ १७ ॥
महाद्रुमाणां शिखरेषु तस्थुर्मनोरमां वाचमुदीरयन्तः ।मयूरदात्यूहचकोरसंघास्तस्मिन्वने काननकोकिलाश्च ॥ १८ ॥
करेणुयूथैः सह यूथपानां मदोत्कटानामचलप्रभाणाम् ।महान्ति यूथानि महाद्विपानां तस्मिन्वने राष्ट्रपतिर्ददर्श ॥ १९ ॥
मनोरमां भोगवतीमुपेत्य धृतात्मनां चीरजटाधराणाम् ।तस्मिन्वने धर्मभृतां निवासे ददर्श सिद्धर्षिगणाननेकान् ॥ २० ॥
ततः स यानादवरुह्य राजा सभ्रातृकः सजनः काननं तत् ।विवेश धर्मात्मवतां वरिष्ठस्त्रिविष्टपं शक्र इवामितौजाः ॥ २१ ॥
तं सत्यसंधं सहिताभिपेतुर्दिदृक्षवश्चारणसिद्धसंघाः ।वनौकसश्चापि नरेन्द्रसिंहं मनस्विनं संपरिवार्य तस्थुः ॥ २२ ॥
स तत्र सिद्धानभिवाद्य सर्वान्प्रत्यर्चितो राजवद्देववच्च ।विवेश सर्वैः सहितो द्विजाग्र्यैः कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥ २३ ॥
स पुण्यशीलः पितृवन्महात्मा तपस्विभिर्धर्मपरैरुपेत्य ।प्रत्यर्चितः पुष्पधरस्य मूले महाद्रुमस्योपविवेश राजा ॥ २४ ॥
भीमश्च कृष्णा च धनंजयश्च यमौ च ते चानुचरा नरेन्द्रम् ।विमुच्य वाहानवरुह्य सर्वे तत्रोपतस्थुर्भरतप्रबर्हाः ॥ २५ ॥
लतावतानावनतः स पाण्डवैर्महाद्रुमः पञ्चभिरुग्रधन्विभिः ।बभौ निवासोपगतैर्महात्मभिर्महागिरिर्वारणयूथपैरिव ॥ २६ ॥
« »