Click on words to see what they mean.

वैशंपायन उवाच ।तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम् ।विजह्रुरिन्द्रप्रतिमाः शिवेषु सरस्वतीशालवनेषु तेषु ॥ १ ॥
यतींश्च सर्वान्स मुनींश्च राजा तस्मिन्वने मूलफलैरुदग्रैः ।द्विजातिमुख्यानृषभः कुरूणां संतर्पयामास महानुभावः ॥ २ ॥
इष्टीश्च पित्र्याणि तथाग्रियाणि महावने वसतां पाण्डवानाम् ।पुरोहितः सर्वसमृद्धतेजाश्चकार धौम्यः पितृवत्कुरूणाम् ॥ ३ ॥
अपेत्य राष्ट्राद्वसतां तु तेषामृषिः पुराणोऽतिथिराजगाम ।तमाश्रमं तीव्रसमृद्धतेजा मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥ ४ ॥
स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां युधिष्ठिरं भीमसेनार्जुनौ च ।संस्मृत्य रामं मनसा महात्मा तपस्विमध्येऽस्मयतामितौजाः ॥ ५ ॥
तं धर्मराजो विमना इवाब्रवीत्सर्वे ह्रिया सन्ति तपस्विनोऽमी ।भवानिदं किं स्मयतीव हृष्टस्तपस्विनां पश्यतां मामुदीक्ष्य ॥ ६ ॥
मार्कण्डेय उवाच ।न तात हृष्यामि न च स्मयामि प्रहर्षजो मां भजते न दर्पः ।तवापदं त्वद्य समीक्ष्य रामं सत्यव्रतं दाशरथिं स्मरामि ॥ ७ ॥
स चापि राजा सह लक्ष्मणेन वने निवासं पितुरेव शासनात् ।धन्वी चरन्पार्थ पुरा मयैव दृष्टो गिरेरृष्यमूकस्य सानौ ॥ ८ ॥
सहस्रनेत्रप्रतिमो महात्मा मयस्य जेत नमुचेश्च हन्ता ।पितुर्निदेशादनघः स्वधर्मं वने वासं दाशरथिश्चकार ॥ ९ ॥
स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः ।विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् ॥ १० ॥
नृपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य ।सत्येन तेऽप्यजयंस्तात लोकान्नेशे बलस्येति चरेदधर्मम् ॥ ११ ॥
अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूषराजम् ।विहाय राष्ट्राणि वसूनि चैव नेशे बलस्येति चरेदधर्मम् ॥ १२ ॥
धात्रा विधिर्यो विहितः पुराणस्तं पूजयन्तो नरवर्य सन्तः ।सप्तर्षयः पार्थ दिवि प्रभान्ति नेशे बलस्येति चरेदधर्मम् ॥ १३ ॥
महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्र ।स्थितान्निदेशे नरवर्य धातुर्नेशे बलस्येति चरेदधर्मम् ॥ १४ ॥
सर्वाणि भूतानि नरेन्द्र पश्य यथा यथावद्विहितं विधात्रा ।स्वयोनितस्तत्कुरुते प्रभावान्नेशे बलस्येति चरेदधर्मम् ॥ १५ ॥
सत्येन धर्मेण यथार्हवृत्त्या ह्रिया तथा सर्वभूतान्यतीत्य ।यशश्च तेजश्च तवापि दीप्तं विभावसोर्भास्करस्येव पार्थ ॥ १६ ॥
यथाप्रतिज्ञं च महानुभाव कृच्छ्रं वने वासमिमं निरुष्य ।ततः श्रियं तेजसा स्वेन दीप्तामादास्यसे पार्थिव कौरवेभ्यः ॥ १७ ॥
वैशंपायन उवाच ।तमेवमुक्त्वा वचनं महर्षिस्तपस्विमध्ये सहितं सुहृद्भिः ।आमन्त्र्य धौम्यं सहितांश्च पार्थांस्ततः प्रतस्थे दिशमुत्तरां सः ॥ १८ ॥
« »