Click on words to see what they mean.

वैशंपायन उवाच ।वने निवसतां तेषां पाण्डवानां महात्मनाम् ।वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥ १ ॥
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् ।प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः ॥ २ ॥
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् ।चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥ ३ ॥
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः ।दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥ ४ ॥
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः ।निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत् ॥ ५ ॥
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी ।स च भीमो महातेजाः सर्वेषामुत्तमो बली ।युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम् ॥ ६ ॥
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः ।वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः ॥ ७ ॥
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः ।आजगाम महायोगी पाण्डवानवलोककः ॥ ८ ॥
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः ।प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥ ९ ॥
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः ।तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः ॥ १० ॥
तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः ।महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥ ११ ॥
युधिष्ठिर महाबाहो शृणु धर्मभृतां वर ।नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम् ॥ १२ ॥
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ।नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ॥ १३ ॥
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ।उदयास्तमयज्ञो हि न शोचति न हृष्यति ॥ १४ ॥
सुखमापतितं सेवेद्दुःखमापतितं सहेत् ।कालप्राप्तमुपासीत सस्यानामिव कर्षकः ॥ १५ ॥
तपसो हि परं नास्ति तपसा विन्दते महत् ।नासाध्यं तपसः किंचिदिति बुध्यस्व भारत ॥ १६ ॥
सत्यमार्जवमक्रोधः संविभागो दमः शमः ।अनसूयाविहिंसा च शौचमिन्द्रियसंयमः ।साधनानि महाराज नराणां पुण्यकर्मणाम् ॥ १७ ॥
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ॥ १८ ॥
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥ १९ ॥
यथाशक्ति प्रयच्छेच्च संपूज्याभिप्रणम्य च ।काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः ॥ २० ॥
सत्यवादी लभेतायुरनायासमथार्जवी ।अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥ २१ ॥
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति ।न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥ २२ ॥
संविभक्ता च दाता च भोगवान्सुखवान्नरः ।भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥ २३ ॥
मान्यान्मानयिता जन्म कुले महति विन्दति ।व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः ॥ २४ ॥
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा ।प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥ २५ ॥
युधिष्ठिर उवाच ।भगवन्दानधर्माणां तपसो वा महामुने ।किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥ २६ ॥
व्यास उवाच ।दानान्न दुष्करतरं पृथिव्यामस्ति किंचन ।अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥ २७ ॥
परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम् ।प्रविशन्ति नरा वीराः समुद्रमटवीं तथा ॥ २८ ॥
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः ।पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥ २९ ॥
तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः ।न दुष्करतरं दानात्तस्माद्दानं मतं मम ॥ ३० ॥
विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् ।पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत् ॥ ३१ ॥
अन्यायसमुपात्तेन दानधर्मो धनेन यः ।क्रियते न स कर्तारं त्रायते महतो भयात् ॥ ३२ ॥
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर ।मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥ ३३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥ ३४ ॥
« »