Click on words to see what they mean.

युधिष्ठिर उवाच ।व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना ।कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे ॥ १ ॥
प्रत्यक्षधर्मा भगवान्यस्य तुष्टो हि कर्मभिः ।सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः ॥ २ ॥
व्यास उवाच ।शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संशितव्रतः ।आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः ॥ ३ ॥
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः ।सत्रमिष्टीकृतं नाम समुपास्ते महातपाः ॥ ४ ॥
सपुत्रदारो हि मुनिः पक्षाहारो बभूव सः ।कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत् ॥ ५ ॥
दर्शं च पौर्णमासं च कुर्वन्विगतमत्सरः ।देवतातिथिशेषेण कुरुते देहयापनम् ॥ ६ ॥
तस्येन्द्रः सहितो देवैः साक्षात्त्रिभुवनेश्वरः ।प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि ॥ ७ ॥
स पर्वकालं कृत्वा तु मुनिवृत्त्या समन्वितः ।अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना ॥ ८ ॥
व्रीहिद्रोणस्य तदहो ददतोऽन्नं महात्मनः ।शिष्टं मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात् ॥ ९ ॥
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम् ।मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति ॥ १० ॥
तं तु शुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम् ।दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह ॥ ११ ॥
बिभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव ।विकचः परुषा वाचो व्याहरन्विविधा मुनिः ॥ १२ ॥
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः ।अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम ॥ १३ ॥
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत ।पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम् ॥ १४ ॥
प्रादात्स तपसोपात्तं क्षुधितायातिथिव्रती ।उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः ॥ १५ ॥
ततस्तदन्नं रसवत्स एव क्षुधयान्वितः ।बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः ॥ १६ ॥
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः ।अथानुलिलिपेऽङ्गानि जगाम च यथागतम् ॥ १७ ॥
एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः ।आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः ॥ १८ ॥
निराहारस्तु स मुनिरुञ्छमार्जयते पुनः ।न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा ॥ १९ ॥
न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः ।सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम् ॥ २० ॥
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम् ।उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः ॥ २१ ॥
न चास्य मानसं किंचिद्विकारं ददृशे मुनिः ।शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः ॥ २२ ॥
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा ।त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः ॥ २३ ॥
क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च ।विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति ॥ २४ ॥
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम् ।मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः ॥ २५ ॥
श्रमेणोपार्जितं त्यक्तुं दुःखं शुद्धेन चेतसा ।तत्सर्वं भवता साधो यथावदुपपादितम् ॥ २६ ॥
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह ।इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः ॥ २७ ॥
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम् ।जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम् ॥ २८ ॥
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः ।सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत ॥ २९ ॥
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः ।देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः ॥ ३० ॥
हंससारसयुक्तेन किङ्किणीजालमालिना ।कामगेन विचित्रेण दिव्यगन्धवता तथा ॥ ३१ ॥
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम् ।समुपारोह संसिद्धिं प्राप्तोऽसि परमां मुने ॥ ३२ ॥
तमेवंवादिनमृषिर्देवदूतमुवाच ह ।इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम् ॥ ३३ ॥
के गुणास्तत्र वसतां किं तपः कश्च निश्चयः ।स्वर्गे स्वर्गसुखं किं च दोषो वा देवदूतक ॥ ३४ ॥
सतां सप्तपदं मित्रमाहुः सन्तः कुलोचिताः ।मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो ॥ ३५ ॥
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन् ।श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव ॥ ३६ ॥
« »