Click on words to see what they mean.

वैशंपायन उवाच ।ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् ।मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥ १ ॥
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे ।किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥ २ ॥
चित्रसेन उवाच ।विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना ।दुर्योधनस्य पापस्य कर्णस्य च धनंजय ॥ ३ ॥
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् ।इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ॥ ४ ॥
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः ।गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय ॥ ५ ॥
धनंजयश्च ते रक्ष्यः सह भ्रातृभिराहवे ।स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः ॥ ६ ॥
वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम् ।अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ॥ ७ ॥
अर्जुन उवाच ।उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः ।धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ॥ ८ ॥
चित्रसेन उवाच ।पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति ।प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय ॥ ९ ॥
नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः ।जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥ १० ॥
वैशंपायन उवाच ।ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम् ।अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम् ॥ ११ ॥
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा ।मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥ १२ ॥
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः ।दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥ १३ ॥
उपकारो महांस्तात कृतोऽयं मम खेचराः ।कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥ १४ ॥
आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः ।प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम् ॥ १५ ॥
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता ।सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥ १६ ॥
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् ।दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥ १७ ॥
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः ।कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥ १८ ॥
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः ।बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः ॥ १९ ॥
ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा ।युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत् ॥ २० ॥
मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् ।न हि साहसकर्तारः सुखमेधन्ति भारत ॥ २१ ॥
स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन ।गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥ २२ ॥
पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा ।विदीर्यमाणो व्रीडेन जगाम नगरं प्रति ॥ २३ ॥
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः ।भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥ २४ ॥
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः ।वने द्वैतवने तस्मिन्विजहार मुदा युतः ॥ २५ ॥
« »