Click on words to see what they mean.

वैशंपायन उवाच ।ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः ।विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन् ॥ १ ॥
चत्वारः पाण्डवा वीरा गन्धर्वाश्च सहस्रशः ।रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत् ॥ २ ॥
यथा कर्णस्य च रथो धार्तराष्ट्रस्य चोभयोः ।गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रिरे ॥ ३ ॥
तान्समापततो राजन्गन्धर्वाञ्शतशो रणे ।प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः ॥ ४ ॥
अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः ।न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम् ॥ ५ ॥
अभिक्रुद्धानभिप्रेक्ष्य गन्धर्वानर्जुनस्तदा ।लक्षयित्वाथ दिव्यानि महास्त्राण्युपचक्रमे ॥ ६ ॥
सहस्राणां सहस्रं स प्राहिणोद्यमसादनम् ।आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलोत्कटः ॥ ७ ॥
तथा भीमो महेष्वासः संयुगे बलिनां वरः ।गन्धर्वाञ्शतशो राजञ्जघान निशितैः शरैः ॥ ८ ॥
माद्रीपुत्रावपि तथा युध्यमानौ बलोत्कटौ ।परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान् ॥ ९ ॥
ते वध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महात्मभिः ।उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः ॥ १० ॥
तानुत्पतिष्णून्बुद्ध्वा तु कुन्तीपुत्रो धनंजयः ।महता शरजालेन समन्तात्पर्यवारयत् ॥ ११ ॥
ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ।ववर्षुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः ॥ १२ ॥
गदाशक्त्यसिवृष्टीस्ता निहत्य स महास्त्रवित् ।गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः ॥ १३ ॥
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा ।अश्मवृष्टिरिवाभाति परेषामभवद्भयम् ॥ १४ ॥
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना ।भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन् ॥ १५ ॥
तेषां तु शरवर्षाणि सव्यसाची परंतपः ।अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत ॥ १६ ॥
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः ।आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः ॥ १७ ॥
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः ।दैतेया इव शक्रेण विषादमगमन्परम् ॥ १८ ॥
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः ।विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना ॥ १९ ॥
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण धीमता ।चित्रसेनो गदां गृह्य सव्यसाचिनमाद्रवत् ॥ २० ॥
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे ।गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा ॥ २१ ॥
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना ।संवृत्य विद्ययात्मानं योधयामास पाण्डवम् ।अस्त्राणि तस्य दिव्यानि योधयामास खे स्थितः ॥ २२ ॥
गन्धर्वराजो बलवान्माययान्तर्हितस्तदा ।अन्तर्हितं समालक्ष्य प्रहरन्तमथार्जुनः ।ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ २३ ॥
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा ।शब्दवेध्यमुपाश्रित्य बहुरूपो धनंजयः ॥ २४ ॥
स वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना ।अथास्य दर्शयामास तदात्मानं प्रियः सखा ॥ २५ ॥
चित्रसेनमथालक्ष्य सखायं युधि दुर्बलम् ।संजहारास्त्रमथ तत्प्रसृष्टं पाण्डवर्षभः ॥ २६ ॥
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम् ।संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च ॥ २७ ॥
चित्रसेनश्च भीमश्च सव्यसाची यमावपि ।पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे ॥ २८ ॥
« »