Click on words to see what they mean.

व्याध उवाच ।एवं शप्तोऽहमृषिणा तदा द्विजवरोत्तम ।अभिप्रसादयमृषिं गिरा वाक्यविशारदम् ॥ १ ॥
अजानता मयाकार्यमिदमद्य कृतं मुने ।क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥ २ ॥
ऋषिरुवाच ।नान्यथा भविता शाप एवमेतदसंशयम् ।आनृशंस्यादहं किंचित्कर्तानुग्रहमद्य ते ॥ ३ ॥
शूद्रयोनौ वर्तमानो धर्मज्ञो भविता ह्यसि ।मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः ॥ ४ ॥
तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि ।जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि ।शापक्षयान्ते निर्वृत्ते भवितासि पुनर्द्विजः ॥ ५ ॥
व्याध उवाच ।एवं शप्तः पुरा तेन ऋषिणास्म्युग्रतेजसा ।प्रसादश्च कृतस्तेन ममैवं द्विपदां वर ॥ ६ ॥
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम ।आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥ ७ ॥
एतत्ते सर्वमाख्यातं यथा मम पुराभवत् ।अभितश्चापि गन्तव्यं मया स्वर्गं द्विजोत्तम ॥ ८ ॥
ब्राह्मण उवाच ।एवमेतानि पुरुषा दुःखानि च सुखानि च ।प्राप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ।दुष्करं हि कृतं तात जानता जातिमात्मनः ॥ ९ ॥
कर्मदोषश्च वै विद्वन्नात्मजातिकृतेन वै ।कंचित्कालं मृष्यतां वै ततोऽसि भविता द्विजः ।सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥ १० ॥
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥ ११ ॥
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ १२ ॥
कर्मदोषेण विषमां गतिमाप्नोति दारुणाम् ।क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥ १३ ॥
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः ।लोकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः ॥ १४ ॥
व्याध उवाच ।प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।एतद्विज्ञानसामर्थ्यं न बालैः समतां व्रजेत् ॥ १५ ॥
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च ।मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ॥ १६ ॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ।सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ १७ ॥
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते ।ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ।शोचतो न भवेत्किंचित्केवलं परितप्यते ॥ १८ ॥
परित्यजन्ति ये दुःखं सुखं वाप्युभयं नराः ।त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ॥ १९ ॥
असंतोषपरा मूढाः संतोषं यान्ति पण्डिताः ।असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ।न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥ २० ॥
न विषादे मनः कार्यं विषादो विषमुत्तमम् ।मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥ २१ ॥
यं विषादोऽभिभवति विषमे समुपस्थिते ।तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ॥ २२ ॥
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् ।न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् ॥ २३ ॥
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे ।अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ २४ ॥
भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः ।न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥ २५ ॥
न शोचामि च वै विद्वन्कालाकाङ्क्षी स्थितोऽस्म्यहम् ।एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥ २६ ॥
ब्राह्मण उवाच ।कृतप्रज्ञोऽसि मेधावी बुद्धिश्च विपुला तव ।नाहं भवन्तं शोचामि ज्ञानतृप्तोऽसि धर्मवित् ॥ २७ ॥
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वा परिरक्षतु ।अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतां वर ॥ २८ ॥
मार्कण्डेय उवाच ।बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह ।प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥ २९ ॥
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा ।मातापितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः ॥ ३० ॥
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर ।पृष्टवानसि यं तात धर्मं धर्मभृतां वर ॥ ३१ ॥
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम ।मातापित्रोश्च शुश्रूषा व्याधे धर्मश्च कीर्तितः ॥ ३२ ॥
युधिष्ठिर उवाच ।अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् ।सर्वधर्मभृतां श्रेष्ठ कथितं द्विजसत्तम ॥ ३३ ॥
सुखश्रव्यतया विद्वन्मुहूर्तमिव मे गतम् ।न हि तृप्तोऽस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥ ३४ ॥
« »