Click on words to see what they mean.

वैशंपायन उवाच ।मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा ।माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥ १ ॥
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः ।उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥ २ ॥
हैहयानां कुलकरो राजा परपुरंजयः ।कुमारो रूपसंपन्नो मृगयामचरद्बली ॥ ३ ॥
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते ।कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ।स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् ॥ ४ ॥
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः ।जगाम हैहयानां वै सकाशं प्रथितात्मनाम् ॥ ५ ॥
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते ।तेषां च तद्यथावृत्तं कथयामास वै तदा ॥ ६ ॥
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् ।श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥ ७ ॥
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः ।जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा ॥ ८ ॥
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् ।तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ॥ ९ ॥
ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने ।त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥ १० ॥
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः ।क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ॥ ११ ॥
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् ।नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ।अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः ॥ १२ ॥
तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरंजयः ।स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः ।पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥ १३ ॥
ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः ।महदाश्चर्यमिति वै विब्रुवाणा महीपते ॥ १४ ॥
मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् ।किमेतत्तपसो वीर्यं येनायं जीवितः पुनः ।श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत ॥ १५ ॥
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः ।कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः ॥ १६ ॥
सत्यमेवाभिजानीमो नानृते कुर्महे मनः ।स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥ १७ ॥
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे ।नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥ १८ ॥
अतिथीनन्नपानेन भृत्यानत्यशनेन च ।तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥ १९ ॥
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः ।गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ॥ २० ॥
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् ।स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥ २१ ॥
« »