Click on words to see what they mean.

मार्कण्डेय उवाच ।भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे ।वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ।तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् ॥ १ ॥
भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ।संचिन्त्य स महातेजा वनमेवान्वरोचयत् ।धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥ २ ॥
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् ।अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥ ३ ॥
तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती ।वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ।स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् ॥ ४ ॥
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु ।भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् ।एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥ ५ ॥
अत्रिरुवाच ।कथितो मे महाभागे गौतमेन महात्मना ।वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥ ६ ॥
किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः ।यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥ ७ ॥
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् ।मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् ॥ ८ ॥
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव ।गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् ॥ ९ ॥
मार्कण्डेय उवाच ।एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः ।गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥ १० ॥
राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः ।स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥ ११ ॥
तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः ।मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता ।अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः ॥ १२ ॥
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत ।अयमेव विधाता च यथैवेन्द्रः प्रजापतिः ।त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥ १३ ॥
गौतम उवाच ।जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे ।स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् ॥ १४ ॥
न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् ।बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥ १५ ॥
मार्कण्डेय उवाच ।विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ ।ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥ १६ ॥
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि ।उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ ॥ १७ ॥
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् ।विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥ १८ ॥
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् ।आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुंगवाः ।वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् ॥ १९ ॥
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् ।सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै ॥ २० ॥
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः ।प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥ २१ ॥
सनत्कुमार उवाच ।ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह ।राजा वै प्रथमो धर्मः प्रजानां पतिरेव च ।स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः ॥ २२ ॥
प्रजापतिर्विराट्सम्राट्क्षत्रियो भूपतिर्नृपः ।य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ २३ ॥
पुरायोनिर्युधाजिच्च अभिया मुदितो भवः ।स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते ॥ २४ ॥
सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः ।अधर्मादृषयो भीता बलं क्षत्रे समादधन् ॥ २५ ॥
आदित्यो दिवि देवेषु तमो नुदति तेजसा ।तथैव नृपतिर्भूमावधर्मं नुदते भृशम् ॥ २६ ॥
अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् ।उत्तरः सिध्यते पक्षो येन राजेति भाषितम् ॥ २७ ॥
मार्कण्डेय उवाच ।ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः ।तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥ २८ ॥
यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः ।सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ।तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च ॥ २९ ॥
दासीसहस्रं श्यामानां सुवस्त्राणामलंकृतम् ।दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश ।एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः ॥ ३० ॥
तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः ।प्रत्याजगाम तेजस्वी गृहानेव महातपाः ॥ ३१ ॥
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् ।तपः समभिसंधाय वनमेवान्वपद्यत ॥ ३२ ॥
« »